- ८३-१०६ प्रयोजनविषयकाक्षेपाणां समाधानानि
- ८३-९८ “बन्धः सत्यः, स च ज्ञानेन निवर्तेत” इत्याक्षेपस्य समाधानानि
आवर्तः ९१ – स च संस्कारो बन्ध्याध्यासेऽपि घटते
अहङ्कारादिनिखिलानात्मवस्तुजातं तज्ज्ञानञ्च बन्ध इत्युच्यते।
इदञ्च प्रत्यगात्मविलक्षणं बन्धरूपमनात्मवस्तुजातं, रज्जुसर्पस्वप्नेन्द्रजालादिवत् यदा प्रतीयते तदैवास्ति;
अप्रतीतिदशायां तस्य सत्ता नास्त्येवेति वेदान्तसिद्धान्तः।
अत एव
“कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत्सुषुप्तम्” (मा. आ. 5),
“न तु तद्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्” (बृ. 4-3-23),
“स यदा तेजसा ऽभिभूतो भवति अत्रैष देवः स्वप्नान्न पश्यति” (प्र. 4-6.),
“एवं ह वै तत्सर्वं पर आत्मनि संप्रतिष्ठते” (प्र. 4-7),
“पृथिवी च पृथिवीमात्रा च” (प्र. 4-8)
इत्यादिवेदान्तेषु सुषुप्तौ निखिलद्वैतदृश्यप्रपञ्चस्य निःशेषाभावः प्रतिपादितः। यस्मान्न किञ्चिदपि द्वैतं सुषुप्तावुपलभ्यते तस्मात् सुषुप्तौ निखिलद्वैतप्रपञ्चः प्रविलीयते, प्रबोधे च पुनरेवोत्पद्यते।
“यदा सुप्तः स्वनं न कञ्चन पश्यत्यथास्मिन् प्राण एवैकधा भवति, तथैनं वाक् सर्वैर्नामभिः सहाप्येति, चक्षुः सर्वे रूपैः सहाप्येति, श्रोत्रं सर्वैः शब्दैः सहाप्येति, मनः सर्वैर्ध्यानैः सहाप्येति। स यदा प्रतिबुद्धयते यथाऽग्नेर्ज्वलतो विस्फुलिङ्गा विप्रतिष्ठेरन् एवमेवैतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः।”
“सुषुप्तिकाले सकले विलीने तमोऽभिभूतः सुखरूपमेति” (कै. 13),
“पुरत्रये क्रीडति यश्च जीवस्ततस्तु जातं सकलं विचित्रम्” (कै. 14),
“अथ यदा सुषुप्तो भवति यदा न कस्यचन वेद” (बृ. 2-1-19),
“स यथोर्णनाभिस्तन्तुनोच्चरेद्यथाग्नेः क्षुद्रा विस्फुलिङ्गा
व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोका सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति” (बृ. 2-1-20) इत्येवमादिश्रुतिभिरयमर्थः प्रतिपादितः।
अयमेव दृष्टिसृष्टिवाद *१ इति वेदान्तशास्त्रे प्रसिद्धः। उत्तरत्र चैषः प्रपञ्च्यते।
*१. दृष्टिः नाम अविद्यावृत्तिरूपं ज्ञानम्। तादृशज्ञानकाल एवं विषयाणामुत्पत्तिरिति यो वादः स एव दृष्टिसृष्टिवाद इति शास्त्रेषु कथितः।
इत्थमेवाहङ्कारादिदेहान्ता विषयास्तज्ज्ञानानि चासङ्ख्येयतया प्रतिक्षणमुत्पद्य विनश्यन्ति। ज्ञातैकसत्ताकत्वेनाज्ञातसत्ताभावादेव स्वप्नहस्तिशुक्तिरजतादिवत् जाग्रत्यहङ्कारादयोऽपि यदा प्रतीयन्ते तदानीमेवोत्पद्यन्ते, अप्रतीतिदशायां प्रलीयन्ते च। अहङ्कारादीनां तज्ज्ञानानाञ्चाध्यासत्वमनिर्वचनीयख्यातिप्रस्तावे निरूपयिष्यते। अहङ्कारः केवलसाक्षिभास्य इति विषयप्रस्तावे निरूपितत्वादहङ्कारप्रतीतिः केवलसाक्षिरूपैव। साक्षिणश्चोत्पत्तिलयादयो न सन्ति। तथापि साक्षी अहङ्कारादीन् स्वविषयान् वृत्तिद्वारैव प्रकाशयति, न तु साक्षात्। साक्ष्यविषयकवृत्तेरुत्पत्तिलयसत्त्वादेवाहङ्कारप्रतीतेरप्युत्पत्तिलयादयोभ्युपगम्यन्ते। इत्थमेवोत्तरोत्तराहङ्कारादीनां तद्विषयकज्ञानानां चोत्पत्तिं प्रति पूर्वपूर्वमिथ्याहङ्काराद्यनुभवजन्यसंस्कार एव कारणम्।