- ८३-१०६ प्रयोजनविषयकाक्षेपाणां समाधानानि
- ८३-९८ “बन्धः सत्यः, स च ज्ञानेन निवर्तेत” इत्याक्षेपस्य समाधानानि
आवर्तः ९० – सजातीयवस्तुज्ञानजन्यसंस्कार एवाध्यासहेतुः
वस्तुज्ञानं संस्कारहेतुः। शुभाशुभकर्मजन्यधर्माधर्माख्यापूर्वो यथान्तःकरणे सूक्ष्मरूपेण वर्तते, तथा तत्तद्वस्तुज्ञानजन्यसंस्कारोप्यन्तःकरणे एव वर्तते। यस्य हि पूर्वानुभवः सर्पविषयो नाभूत्, तस्यान्यवस्तुज्ञानजन्यसंस्कारे सत्यपि रज्जौ सर्पाध्यासो न जायेतैव। यस्य वस्तुनोऽध्यासो भवति तत्सजातीयवस्त्वनुभवाहितसंस्कारोऽध्यासहेतुः, न तु विजातीयवस्त्वनुभवाहितसंस्कारः। सर्पस्य सर्प एव सजातीयो नान्यः। यस्य पुनः सर्पविषयकज्ञानमेव नाभूत्तस्य सत्यप्यन्यविषयकज्ञाने, सजातीयवस्तुज्ञानजन्यसंस्काराभावान्न रज्जौ सर्पाध्यासो जायेत। संस्कारो हि नाम सूक्ष्मावस्थैव। एवञ्चाध्यासात् पूर्वभाविसजातीयवस्तुज्ञानजन्यसंस्कार एवाध्यासहेतुः। ‘सत्यवस्तुज्ञानजन्यसंस्कार एवाध्यासहेतुर्न मिथ्यावस्तुज्ञानजन्यसंस्कारः’ इति परोक्तनियमस्यापवादः प्रागैन्द्रजालिकाम्रवृक्षदृष्टान्तेनोक्तः। तस्मान्मिथ्यार्थानुभवजन्यसंस्कारोऽप्यध्यासहेतुः, न प्रमाहितसंस्कार एवेति नियमः।