-
४०-१०८
द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ८३-१०६ प्रयोजनविषयकाक्षेपाणां समाधानानि
- ८३-९८ “बन्धः सत्यः, स च ज्ञानेन निवर्तेत” इत्याक्षेपस्य समाधानानि
- ८३-१०६ प्रयोजनविषयकाक्षेपाणां समाधानानि
- ८३-९८ “बन्धः सत्यः, स च ज्ञानेन निवर्तेत” इत्याक्षेपस्य समाधानानि
आवर्तः ८९ – संस्कारस्यैव सर्वत्राध्यासहेतुत्वम्
रज्ज्वादौ जायमानसर्पाद्यध्यासं प्रति नियमेनाव्यवहितपूर्वकाले सर्पादिज्ञानं नास्ति, तस्मात् सर्पादिज्ञानं न रज्जुसर्पाद्यध्यासहेतुः, किन्तु सर्पाद्यनुभवजन्यसंस्कार एव नियमेन सर्पाद्यध्यासहेतुरिति पर्यवस्यति। एवमेव शुक्तिरजताद्यध्यासं प्रत्यपि रजताद्यनुभवजन्यसंस्कार एव हेतुः। सर्वत्र हि तत्तदनुभवाहितसंस्कार एवाध्यासत्वावच्छिन्नं प्रति नियमेन कारणं भवति।