- ८३-१०६ प्रयोजनविषयकाक्षेपाणां समाधानानि
- ८३-९८ “बन्धः सत्यः, स च ज्ञानेन निवर्तेत” इत्याक्षेपस्य समाधानानि
आवर्तः ८८ – अपूर्वस्य कारणस्य कार्याव्यवहितपूर्वकालवर्तित्वनियमः स्वर्गादिविषयेप्यस्ति
तथा हि शुभाशुभकर्माण्यपि न स्वतः कालान्तरभाविस्वर्गनरकादिप्राप्तिहेतवो भवन्ति, क्षणिकत्वात्। किन्तु तानि कर्माणि स्वनाशोत्तरक्षणे धर्माधर्माख्यापूर्वरूपसंस्कारमुत्पादयन्ति। तौ च धर्माधर्मावन्तःकरणमाश्रित्य तिष्ठतः। तेन धर्माधर्मादिना कार्याव्यवहितपूर्वकालवर्तिना स्वर्गनरकादिफलं कालान्तरे सिद्ध्यति। ततो धर्माधर्मादि नश्यति। एतदभिप्रायेणैव शास्त्रे शुभाशुभकर्माण्यपूर्वद्वारा फलहेतवो, न साक्षादित्युच्यते। धर्माधर्मयोरेव अपूर्वः, अदृष्टं, पुण्यापुण्ये इत्यादिशब्दा वाचकाः। केचन धर्माधर्महेतुभूतशुभाशुभकर्माण्यपि धर्माधर्माशब्देन वदन्ति, कार्यकारणयोरभेदात् लोकोऽपि शुभकर्मकारिणं ‘अयं धर्मं चरति महात्मा’ इति, अशुभकर्मकारिणं ‘अयमधर्मं चरति दुष्टः’ इति चाचष्टे। वस्तुतस्तु शुभाशुभकर्मणोर्न साक्षाद्धर्माधर्मशब्दवाच्यत्वमुचितम्। अपि तु शुभाशुभकर्मणी धर्माधर्मौ जनयतः, तस्माच्छुभाशुभकर्मणोर्धर्माधर्मत्वप्रसिद्धिः। ‘आयुर्वे घृतम्’ इत्यायुर्वर्धक घृते आयुःशब्दः शास्त्रेण यथा प्रयुज्यते, तद्वत्। तस्मादव्यवहितपूर्वकाले हेतुना भाव्यमेव।