ॐ गुरुपरमात्मने नमः

- ४०-१०८ द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ८३-१०६ प्रयोजनविषयकाक्षेपाणां समाधानानि
- ८३-९८ “बन्धः सत्यः, स च ज्ञानेन निवर्तेत” इत्याक्षेपस्य समाधानानि


आवर्तः ८७ – तत्र समाधानम्

नैवायं साधुराक्षेपः। तथा हि, नष्टज्ञानकर्मादिकं यदि क्रमेणाध्यासस्वर्गनरकादिहेतुर्भवेत् तदा मृतकुलालनष्टदण्डचक्रादयोऽपि घटादिकार्यं जनयेयुः। यथा रज्जुसर्पाध्यासस्य व्यवहितपूर्वकालवर्ति सर्पज्ञानं कारणं, यथा च स्वर्गनरकादिप्राप्तेः व्यवहितपूर्वकालवर्तिशुभाशुभकर्माणि कारणानि, तथा घटस्यापि व्यवहितपूर्वकाले, इदानीं विनष्टकुलालदण्डचक्रादयोप्यभूवन्नेवेति तैरपि घटाद्युत्पद्येतैव। न तु तथा विनष्टैः कुलालादिभिः घट उत्पद्यमानो दृष्टः। तस्माद्वयवहितपूर्वकालवर्ति कारणं न कार्यं जनयेत्, किन्त्वव्यवहितपूर्वकालवर्त्येव कारणं कार्योत्पादनक्षम मिति युक्तम्।