- ८३-१०६ प्रयोजनविषयकाक्षेपाणां समाधानानि
- ८३-९८ “बन्धः सत्यः, स च ज्ञानेन निवर्तेत” इत्याक्षेपस्य समाधानानि
आवर्तः ८६ – अत्रैवमाक्षेपः
कारणेन कार्याव्यवहितपूर्वकालवर्तिना भाव्यमिति नियमो मास्तु। किन्तु कार्यनियतपूर्वकालवर्त्तित्वमात्रं कारणविशेषणमस्तु। स च पूर्वकालो व्यवहितो वास्त्वव्यवहितो वा। किञ्च यद्येकान्ततः कार्याव्यवहितपूर्वकालवर्त्यैव कारणमिति नियमोऽभ्युपगम्येत, तर्हि विहितं कर्म स्वर्गप्राप्तये, निषिद्धञ्च कर्म नरकप्राप्तये हेतुरिति वदच्छास्त्रमप्रमाणं स्यात्। कायिकवाचिकमानसिकचेष्टारूपक्रियाणामेव कर्मेति नाम। ताश्च क्रियाः अनुष्ठानोत्तरक्षणे नश्यन्ति, स्वर्गनरकादितत्तत्फलं तु कालान्तरे भविष्यति। तस्मात् स्वर्गनरकादिफलप्राप्तेरव्यवहितपूर्वकाले तत्कारणीभूतविहितप्रतिषिद्धकर्माणि न सन्ति। यथेवैतानि व्यवहितपूर्वकालवर्तीन्यपि शुभाशुभकर्माणि स्वर्गनरकादिप्राप्तिकारणानि भवन्त्येवमेव व्यवहितपूर्वकालवर्ति सर्पज्ञानमपि रज्जौ जायमान सर्पाध्यासहेतुर्भवेदेव।