-
४०-१०८
द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ८३-१०६ प्रयोजनविषयकाक्षेपाणां समाधानानि
- ८३-९८ “बन्धः सत्यः, स च ज्ञानेन निवर्तेत” इत्याक्षेपस्य समाधानानि
- ८३-१०६ प्रयोजनविषयकाक्षेपाणां समाधानानि
- ८३-९८ “बन्धः सत्यः, स च ज्ञानेन निवर्तेत” इत्याक्षेपस्य समाधानानि
आवर्तः ८५ – कारणस्य कार्याव्यवहितपूर्वकालवर्तित्वनियमात् संस्कार एव् अध्यासहेतुः
वस्तुज्ञानमात्रमध्यासहेतुरिति तु न युक्तमेव, कारणस्य कार्याव्यवहितपूर्वकालवर्तित्वनियमात्। तथाहि – घटकारणदण्डचक्रादयो यथा नियमेन घटोत्पत्त्यव्यवहितपूर्वकालवर्तिनो भवन्ति, तथा वस्तुज्ञानमात्रस्याध्यासहेतुत्वे तेनापि नियमेनाध्यासाव्यवहितपूर्वकालवर्तिना भाव्यम्। न तु तथाऽस्ति, सर्पज्ञानात्परं *१ मासानन्तरमपि रज्जौ सर्पाध्यासोत्पतिदर्शनात्। वस्तुज्ञानजन्यसंस्कारस्य हेतुत्वे तु न दोषः। सर्पज्ञानस्य मासात् पूर्वं नष्टत्वेऽपि तज्ज्ञानजन्यसंस्कारस्य रज्जौ सर्पाध्यासाव्यवहितपूर्वकालवर्तित्वात्। तस्मात् ज्ञानजन्यसंस्कार एवाध्यासहेतुः। न वस्तुज्ञानमात्रम्।
*१. मासेत्युपलक्षणमधिककालद्योतनार्थम्।