ॐ गुरुपरमात्मने नमः

- ४०-१०८ द्वितीयतरङ्गः -- अनुबन्धानां विशेषतो निरूपणम्
- ८३-१०६ प्रयोजनविषयकाक्षेपाणां समाधानानि
- ८३-९८ “बन्धः सत्यः, स च ज्ञानेन निवर्तेत” इत्याक्षेपस्य समाधानानि


आवर्तः ८४ – सत्यवस्तुज्ञानमध्यासहेतुरिति न नियमः

यदुक्तं “परमार्थसत्यवस्तुज्ञानं संस्कारद्वारा अध्यासहेतुः। यथा परमार्थसर्पज्ञानं संस्कारद्वारा प्रातिभासिकसर्पाध्यासहेतुः। यदि बन्धोप्येवं सत्यः स्यात् तदा सत्यबन्धज्ञानं स्यात्, तच्च संस्कारद्वारा ऽध्यासहेतुः स्यात्। न तथाऽद्वैतसिद्धान्तः, सिद्धान्ते आत्मनोऽन्यस्यानात्ममात्रस्यासत्यत्वात्। तस्मात् संस्कारद्वारा ऽध्याससामग्रीभूतसत्यबन्धज्ञानस्यासिद्धेर्न बन्धोऽध्यस्त इति वक्तुं शक्यते। किन्तु सत्य” इति – तदयुक्तम्।

न हि सत्यवस्तुज्ञानमेव संस्कारद्वारा ऽध्यासहेतुः, किन्तु वस्तुज्ञानमात्रम्। ज्ञानस्य विषयीभूतं वस्तु सत्यं वा मिथ्या वास्तु, न तत्रादरः। यदि नियमेन संस्कारद्वारा सत्यवस्तुज्ञानमेवाध्यासहेतुरित्यभ्युपगम्येत, तर्हि वक्ष्यमाणोऽध्यासो न घटेत। तथा हि कश्चित् पुरुषः परमार्थाम्रवृक्षमजानानः ऐन्द्रजालिकप्रदर्शितमिथ्याम्रवृक्षमेव भृशमनुभूय, ‘अयमाम्रवृक्ष’ इति तद्वचः श्रुत्वा च मिथ्याम्रवृक्षज्ञानसंस्कारसंस्कृतो भवति। तस्य कदाचिदपि केनचिदपि प्रमाणेन मधूकवृक्षविषयकदर्शनश्रवणादिरूपज्ञानमपि नास्ति। स पुरुषो यदृच्छया मार्गमध्ये मधूकवृक्षं कञ्चन दृष्ट्वा तस्मिन् ‘आम्रवृक्षोऽयम्’ इत्याम्रवृक्षाध्यासं करोत्येव। सोऽयमध्यासः पूर्ववादिमतरीत्या न संभाव्येत, तस्य पुरुषस्य सत्याम्रवृक्षविषयकप्रमाहितसंस्काराभावात्। सिद्धान्ते तु तस्य पुरुषस्यैन्द्रजालिकप्रदर्शितमिथ्याम्रवृक्षज्ञानसंस्कारस्य सत्वान्मधूकवृक्षे आम्रवृक्षाध्यासो भवितुमर्हति। तस्मात् पूर्वपूर्वसजातीयवस्तुज्ञानजन्यसंस्कार एवोत्तरोत्तराध्यासहेतुः। ईदृक्संस्कारजनकं ज्ञानं तद्विषयश्च सत्यो वाऽस्तु मिथ्या वा, नादरस्तत्र। संस्कारद्वारा ज्ञानमेव हेतुः। ज्ञानजन्यसंस्कारो हेतुरिति पक्षेऽपि नार्थतोऽस्ति भेदः। यथो ज्ञानं संस्कारहेतुः, स च संस्कारोऽध्यासहेतुरित्यवसितम्। तस्मात् संस्कारद्वारा ‘जञानं हेतुरित्युक्तेऽपि ज्ञानजन्यसंस्कार एवाध्यासहेतुरिति सिद्ध्यति।