- २८४-३१६ महावाक्यार्थोपदेशनिरूपणम्
- २८६-३१६ पूर्वोक्तप्रश्नश्योत्तरम्
आवर्तः २८७ – जीवन्मुक्तस्य निश्चयः, वेदान्तश्रवणफलं च
आत्मा यदि सदा नित्यमुक्तब्रह्मस्वरूप एव तदा ज्ञाननिवर्त्याज्ञानतत्कार्याद्यभावात् ज्ञानसाधन श्रवणादिवैयर्थ्यमिति चेन्न। जीवन्मुक्तस्य विदुषो दृष्ट्या अज्ञानं तत्कार्यं च सर्वं तुच्छमेव। तस्य जीवन्मुक्तस्य निश्चय इदानीं प्रदर्श्यते अयं प्रपञ्चो गगनारविन्दवन्नास्त्येव। तस्मात् जगतः कर्तेश्वरोऽपि नास्ति। साक्षिणो विषयभूतमज्ञानादिकं साक्ष्यमित्युच्यते। तादृशसाक्ष्याभावात् साक्षी नास्ति। दृश्यावभासकं दृगित्युच्यते। देहादिरूपदृश्याभावात् दृगपि नास्ति। न च केवलकूटस्थचैतन्यस्यैव साक्षीति दृगिति च व्यपदिश्यमानत्वात् साक्षिदृशोर्निषेधो न युज्यते इति वाच्यम्। साक्ष्यापेक्षया हि साक्षीति, दृश्यापेक्षया हि दृगिति च व्यपदेशः। साक्ष्यदृश्ययोरभावे साक्षीति दृगिति च व्यपदेशमात्रं निषिध्यते। न तु स्वरूपं निषिध्यते। यदि बन्धः स्यात् तदा बन्धनिवृत्तिरूपमोक्षोऽपि स्यात्। बन्धोऽपि नास्ति, मोक्षोऽपि नास्ति। यद्यज्ञानं स्यात्तत् ज्ञानेन नश्येत्। अज्ञानाभावात्तन्नाशकज्ञानमपि नास्ति इति ज्ञात्वा कर्तव्यं परित्यजेत्। मयेदं कर्तव्यमिति बुद्धिं परित्यजेदिति यावत्। यतोऽयं लोकः परश्च लोकस्तुच्छः, तस्मात्तल्लाभार्थमनुष्ठेयं किञ्चिदपि नास्ति। आत्मनि बन्धो नास्ति। तस्मान्मोक्षार्थमपि कर्तव्यं किञ्चिदपि नास्ति।
इत्थमात्मानं नित्यमुक्तब्रह्मस्वरूपेण ज्ञात्वा निश्चलो यदा कर्तव्यमखिलं सन्यस्यति तदा अक्रियब्रह्मस्वरूपविदेहमोक्षं लभते। अस्यायमभिप्रायः आत्मा ज्ञानात् पूर्वमपि नित्यमुक्तब्रह्मस्वरूप एवास्ते। तथापि ज्ञानात् पूर्वं ‘आत्मा कर्ता भोक्ता च’ इति मिथ्याग्रहणेन सुखप्राप्तये दुःखहत्यै च पुरुषो - ऽनेकसाधनान्यनुतिष्ठन् वृथा क्लेशमनुभवति। पुरुषस्य बहुजन्मार्जितपुण्यपुञ्जपरिपाकाद्यदोत्तमाचार्यलाभो भवति तदा स गुरुर्वेदान्तवाक्यमुपदिशति। तादृशवेदान्तवाक्यश्रवणेन ‘नाहं कर्ता भोक्ता वा, किन्त्वहं ब्रह्मस्वरूपः। अतश्च न मे किञ्चिदपि कर्तव्यमस्ति’ इति पुरुषस्य ज्ञानमुदेति। एतादृशं ज्ञानमेव वेदान्तश्रवणादिफलम्। ब्रह्मप्राप्तिस्तु न वेदान्तश्रवणफलम्, ब्रह्मणः स्वस्वरूपतया नित्यप्राप्तत्वात्।