ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २८४-३१६ महावाक्यार्थोपदेशनिरूपणम्
- २८६-३१६ पूर्वोक्तप्रश्नश्योत्तरम्


आवर्तः २८८ – ज्ञान्यज्ञानिनोश्चिह्नम्

अकर्तव्यताबुद्धिर्ज्ञानिनश्चिह्नम्। अज्ञानिनस्तु कर्तव्यताबुद्धिश्चिह्नम्। यः स्वातिरिक्तं किञ्चिद्वस्तु स्वेन प्राप्तव्यमस्तीति मत्वा तत्प्राप्तये मया प्रयत्नः कर्तव्य इति मन्यते सोऽज्ञानी। यः पुनः स्वेन प्राप्तव्यमन्यन्नास्तीति दृढनिश्चयेन रूपान्तरप्राप्तिं नेच्छति, किन्तु शान्तसङ्कल्पो न कञ्चन कामं कामयते स *१ ज्ञानी।

*१. ज्ञानी स्वव्यतिरिक्तद्वितीयवस्तुदर्शनश्रवणादिकं न करोतीति भगवद्गीतायां पञ्चमाध्याये सप्तमाष्टमनवमेषु श्रलोकेषूक्तोऽर्थो मुमुक्षूणां बुद्धिवैशद्याय विस्पष्टं व्याख्यायतेऽत्र

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः।
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते॥ भ.गी. ५.७॥

अस्यायमर्थः – योगयुक्तः निष्कामकर्मयोगेन वा ब्रह्मनिष्ठारूपसन्यासयोगेन वा युक्तः; अत एव विशुद्धात्मा = विशुद्धः = रागद्वेषादिरहितः आत्मा = मनो यस्य सः। अत एव विजितात्मा = विजितो विषयेषु तुच्छत्वबुद्ध्या अभावरूपतामापादितः, आत्मा बाह्यवासनारूपस्वभावो यस्य सः। अत एव जितेन्द्रियः = जितानि विषयग्रहणाद्विमुखीकृतानि, इन्द्रियाणि = द्विविधानीन्द्रियाणि येन सः। अत एव सर्वभूतात्मभूतात्मा = सर्वभूतानाम् = ब्रह्मादिस्तम्बान्तनिखिलप्राणिनाम्, आत्मभूतः = स्वरूपभूतः, आत्मा = प्रत्यग्रूप आत्मा यस्य सः। एवं सर्वात्मभावं प्राप्तो यो ब्रह्मवित् सः कुर्वन्नपि = प्रारब्धाक्षिप्तशरीरयात्रानिर्वाहककर्माणि पुण्यपापमिश्रात्मान विधिपूर्वकमविधिपूर्वकं वानुतिष्ठन्नपि न लिप्यते =’अकर्ताहमभोक्ताहमसङ्गः परमेश्वरः’ इति दृढतरनिश्चयवान् कर्मणां फलेन न सम्बध्यते।