ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २८४-३१६ महावाक्यार्थोपदेशनिरूपणम्
- २८६-३१६ पूर्वोक्तप्रश्नश्योत्तरम्


आवर्तः २८९ – गोप्यतत्त्वोपदेशः

(??? २. निश्चलं कूटस्थं ब्रह्म बुद्धिं प्रकाशयतीति वेदान्तसिद्धान्तः। अतो न क्षणि। कविज्ञानवादिमतेऽतिव्याप्तिः। तेषां मते बुद्ध्यतिरिक्तस्य प्रकाशकपदार्थस्याभावात्।)

चैतन्यस्वरूपं ब्रह्मैकमखण्डमसङ्गं जन्मादिभावविकारशून्यमदृश्यं नामरूपरहितमद्वितीयं स्वप्रकाशानन्दरूपं चास्ते। न तत्र मूलाज्ञानमस्ति। न स्थूलसूक्ष्मशरीराणि सन्ति। न समष्टिव्यष्टिप्रपञ्चोऽस्ति। नेशोऽस्ति। न सूत्रात्मा, न वा विराडस्ति। न विश्वतैजसप्राज्ञाः सन्ति। न च भोगो वा योगो वा बन्धो वा मोक्षो वास्ति। न किञ्चिदपि द्वैतं तत्र विद्यते। अथापि तस्मिन् ब्रह्मणि सर्वमप्यस्ति। तथा हि जाग्रत्काले सकलमिदं दृश्यं जगत्तस्मिन् ब्रह्मणि बुद्धिपरिकल्पितं विलसति। स्वप्नकाले च भोगभोग्यादीनामभावेऽपि विचित्रो नानाविधः प्रपञ्चो बुद्धिपरिकल्पितः प्रतीयते। सुषुप्तिकाले तु सा बुद्धिः प्रविलीना भवति। तदा सकलदृश्यद्वैतप्रपञ्चरहितमद्वैतं चिन्मात्रं ब्रह्म प्रकाशते। बुद्धिपरिकल्पितं सर्वं मनोरथमात्रं मिथ्यैव। *२ निश्चलं कूटस्थं ब्रह्मैव तां बुद्धिं प्रकाशयति यस्य हृदये दृढतरं ज्ञानमेवमुदेति तस्य हृदयादज्ञानान्धाकारो निःशेषं ध्रुवं विनश्यति। स सदा असङ्गैकरसस्वयंप्रकाशब्रह्मस्वरूपतयैवात्मानमनुभवति। तस्य दृष्ट्या न किञ्चिदपि दृश्यं द्वैतमभूत् भवति भविष्यति वा। तस्य दृष्ट्या सकलमिदं जगन्मनोरथमात्रविलसितम्। न हि ज्ञानी तादृशस्य जगतः प्राप्तिं निवृत्तिं वा इच्छति। न हि ज्ञानिनः काचिदप्याशास्ति। ज्ञानी हि चक्षुषा पश्यन्नपि न पश्यति। शृण्वन्नपि न शृणोति, रसयन्नपि न रसयति, स्पृशन्नपि न स्पृशति, जिघ्रन्नपि न जिघ्रति। वदन्नपि न वदति। गृह्णन्नपि न गृह्णाति। विसृजन्नपि न विसृजति। गच्छन्नपि न गच्छति। युवतिमनुभवन्नपि नित्यसन्यासी भवति। हे सोम्य, महदिदमाश्चर्यं विजानीहीत्याह गुरुः।

*२. इदानीं योगयुक्तत्वविशुद्धात्मत्वविजितेन्द्रियत्वसर्वभूतात्मभूतत्वरूपपञ्चलक्षणविशिष्टस्य आहारादिविषये प्रवृत्तस्य ब्रह्मविदो दर्शनश्रवणादिरूपेन्द्रियव्यापारेषु ‘नाहं कर्ता’ इति या सुदृढा बुद्धिः सोचितैवेति द्वाभ्यां श्लोकाभ्यामुच्यते –

नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्वित्।
पश्यन् शृण्वन् स्पृशन् जिघ्रन्नश्नन् गच्छन् स्वपन् श्वसन्॥ भ.गी. ५.८॥

प्रलपन् विसृजन् गृह्णन्नुन्मिषन्निमिषन्नपि।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन्॥९॥

अनयोरर्थः

तत्त्ववित् = आत्मनः स्वभावं जानन् ब्रह्मवित्। युक्तः = आत्मनः कूटस्थत्वासङ्गत्वान्तर्बहिःपूर्णत्वादिदर्शनरूपप्रज्ञया युक्तः सन्, पश्यन् रूपम्, शृण्वन् शब्दम्, स्पृशन् स्पर्शम्, जिघ्रन् गन्धम्, अश्नन् अन्नादिकम् गच्छन् देशान्तरम्, स्वपन् निद्रामनुभवन्, श्वसन् = प्राणव्यापारं कुर्वन् प्रलपन् = = शब्दमुच्चारयन्, विसृजन् मलमूत्रादित्यागं कुर्वन्, गृह्णन् = नेत्रोदानादानादिकं कुर्वन्, उन्मिषन् न्मीलनं कुर्वन्, निमिषन् नेत्रनिमीलनं कुर्वन्। अपिशब्दात् यदप्यन्यत्कर्म कर्तव्यतया प्राप्तं तत्सर्वं बहिर्दृष्ट्यानुतिष्ठन्नपि। इन्द्रियाणि = दशेन्द्रियाणि, इन्द्रियार्थेषु = शब्दा।दिस्वस्वविषयेषु वर्तन्ते श्रवणादिरूपस्वस्वव्यापारं कुर्वन्ति इति = ‘नाहं श्रोता, स्प्रष्टा, द्रष्टा, रसयिता, घ्राता, भोक्ता, गन्ता वा’ इत्यादिलक्षणां वृत्तिं धारयन् = सदा वहन्, नैव किञ्चित्करोमीति इन्द्रियाण्येव स्वस्वकर्माणि कुर्वन्ति। अहं त्वक्रियत्वान्न किञ्चिदपि कर्म करोमि। परन्तु तत्तदिन्द्रियकर्मणां साक्षी भूत्वा निष्क्रियस्वस्वरूपेण तूष्णीमस्मीति मन्येत = जानीयात्। देहेन्द्रियादीनां व्यापारेषु ‘अहं मम’ इति भावनां हित्वा विद्वान् तूष्णीं स्थातुमर्हतीति श्लोकद्वयस्य सम्पिण्डितोऽर्थः।

अत्रेदमाकूतम् – ज्ञानिनः सदा असङ्गनिर्विकारचिन्मात्रस्वरूपब्रह्मैवाहमिति दृढनिश्चयसत्त्वात्स परमार्थतो न कामपि क्रियां करोति। प्रारब्धवशात्तु तस्य देहेन्द्रियद्वारा दर्शनादिकाः क्रियाः संभवन्ति। ताश्च क्रियास्तस्य प्रारब्धफलोपभोगरूपाः। परन्तु प्रारब्धबलायातांस्तान् भोगान् भुञ्जानस्यापि ज्ञानिनो न भोगेषु रागो जायते। तथा हि रागश्च नेन्द्रियकृतः। इन्द्रियाणां दर्शनादिव्यापारजननेनैव चरितार्थत्वात्। नाप्यात्मकृतः। आत्मनः सर्वदृश्यावभासकसाधारणनिर्विकारप्रकाशस्वरूपत्वात्। परिशेषात् विषयनिष्ठगुणदोषविवेचनसमर्थमनस एवानुकूले विषये रागो भवति। स च रागो ज्ञानिनो मनसि नैवोन्मिषति। ज्ञानिनो मनसोऽन्तर्मुखतयातीवोपशान्तत्वात्। “रागो लिङ्गमबोधस्य” (नै. सि. ४.६७) इति हि शास्त्रप्रसिद्धिः।

ज्ञानिनः सर्वथा रागानुदये तस्य शरीरस्थितिनिमित्तभोजनादावप्यप्रवृत्त्यापत्त्यां ज्ञानिनः प्रारब्धानुभवो नास्तीत्यापद्येत। न चेयमापत्तिरिष्ठैवेति वक्तुं शक्यते। कर्मा - सारेण प्राणिनां फलदातुरीश्वरस्येच्छया ज्ञानिनोऽपि प्रारब्धानुभवस्यावश्यकत्वात्। तस्मा।ज्ज्ञानिनोऽपि प्रारब्धफलानुभवान्यथानुपपत्त्या भोजनादाविच्छोदेतीति वाच्यमिति चेत् —

तन्न। प्रारब्धजनितो रोगादिर्यथा ज्ञानिन इच्छाविरहेऽपि भवति तथैव तस्य मिथ्याज्ञानाभावात् प्रारब्धफलभोगे अदृढ आभासरूपो रागाभासरूपो रागो जायते। अदृढत्वादेव स रागः स्वनिवृत्तये न वेदान्तविचारादिकमपेक्षते।

सोऽयमदृढो रागः स्वायत्तत्वेन भर्जितबीजवद्दुर्बलत्वेन च शरीरस्थितिमात्रनिमित्तशास्त्रीयभोगमात्रे हेतुर्भवति न तु व्यसनकारणीभूतशास्त्रनिषिद्धभोगहेतुः। अपि च ज्ञानिनो विषयसत्यताभ्रान्त्यभावात्, प्रत्युत दृढतरविषयमिथ्यात्वनिश्चयजनिततीव्रतरवैराग्यबलाच्च दृढरागो नैव भवति। अयमर्थः स्पष्टं षष्ठतरङ्गे वक्ष्यते।

अथवा शाखाग्रं वा रज्जुं वारुह्य नृत्यतोऽपि मल्लस्य चित्तं यथा स्वावलम्बे एव जागरूकं भवति, यथा वा क्षीरपूर्णं कुम्भं धृत्वा गच्छन्त्या योषितः पथि स्वसखीभिः सह वार्तासल्लापादिकं कुर्वाणाया अपि चित्तं क्षीरे एवैकाग्रं भवति, तथा ज्ञानिनोऽपि चित्तं प्रारब्धवशादापाततो विषयेषु प्रवृत्तमपि विशेषतो लक्ष्ये स्वात्मस्वरूप एव निष्ठितं भवति। किञ्च ज्ञानिनो देहेन्द्रियादिवर्गो विनैव रागं प्रारब्धफलत्वेनोपगतदर्शनादिक्रिययैव कृतार्थतां याति। अतश्च स्वात्मस्वरूपेऽवस्थितस्य ज्ञानिनः प्रारब्धफलायातभोगाभासेषु न दृढतररागसंभवः। कदाचित् विषयप्रवृत्तिहेतुभूतप्रारब्धवतो ज्ञानिनो मनो मत्तगजेन्द्रवत्प्रमत्तं सत् विषयेषु विक्षिप्तमपि विषयेषु दोषदृष्ट्यात्मकविवेकमृगेन्द्रोन्मेषात् झटित्येव विक्षेपाद्विमुक्तं प्रशान्तं भवति।

स्वान्तःकरणे तीव्ररागाभावात् भोगहेतुप्रारब्धसत्त्वाच्च गङ्गानिमग्नार्धगात्रः पुरुष इव ज्ञानी मुख्यतया स्वरूपसुखे रमते। अमुख्यतया वेतनग्राही भृतक इव क्लेशं सहमानः तीव्रप्रारब्धफलं चानुभवति। शिथिलप्रारब्धफलभूतनिषिद्धविषयान् प्रयत्नेन परिहरति च। तथापि ज्ञाननिर्भिन्नहृदयग्रन्थेर्ज्ञानिनोऽन्तःकरणस्य क्षीणवासनत्वात्तीव्रतररागाभावाच्च निषिद्धविषयपरित्यागेनादृढरागेण विहितविषयभोगेऽपि विकलपुरुषचित्तस्येव ज्ञानिनोऽन्तःकरणस्य न मुख्यतेत्ययमभिप्रायः, इन्द्रियाणीन्द्रियार्थेषु वर्तन्ते इति जडेन्द्रियाणामेव स्वस्वविषयेषु प्रवृत्तिं वर्णयता गीताश्लोकेन बोध्यते। विरक्तस्य दारैषणातो

‘ज्ञानी युवतिमनुभवन्नपि सन्न्यासी’ इत्युक्तेरयमाशयः व्युत्थितस्य सन्यासिनो ज्ञानिनो न स्त्रीभोगप्रसक्तिः। तस्य स्त्रीप्रसक्तौ व्युत्थानशास्त्रं निरर्थकं भवेत्। वान्ताशी स सन्यास्येव न भवेत्। किन्तु वेषधारी डाम्भिको गृहस्थादप्यधमोऽपूज्यश्च। परिशेषात् गृहस्थे ज्ञानिनि स्त्रीभोगः प्रसज्यते। स ज्ञानी गृहस्थो घृताशिनस्तैलपाने प्रवृत्तिवत् सन्तानार्थी सन् शास्त्रविधिमनतिक्रम्य विधिनोढां जायाभृतुकाले गच्छन्नपि न लिप्यते, यतः स भोगासक्त्या न स्त्रियं गच्छति। विषयमिथ्यात्वदर्शनेन । विवेकवैराग्यादिसम्पन्नत्वात् तादृशो गृहस्थो ज्ञानी उपचारात्सन्न्यासीत्युच्यते। सन्यासिन इव तस्यापि विवेकवैराग्यादिसम्पन्नत्वात्। यस्तु विवेकवैराग्यादिविकलो भोगासक्त्यैव स्त्रियं गच्छति स वेदान्तप्रवचनपटुरपि न ज्ञानी। रागादेरनिवृत्त्या सोऽज्ञान्येव। अत्र स्त्रीरूपविषयमधिकृत्य कृतो विचारः सर्वविषयविचारोपलक्षणार्थः। रागरूपदोषप्रतिषेधश्च द्वेषादिसर्वदोषप्रतिषेधोपलक्षणार्थो वेदितव्यः।

अयमभिप्रायः – ‘इन्द्रियेषु स्वस्वव्यापारेषु व्यापृतेष्वपि न मे तत्रास्ति सम्पर्कः। नाहमिन्द्रियवर्गः। इन्द्रियवर्गश्च न मम। अहं तु साक्षी कूटस्थोऽसङ्गः। इन्द्रियाणि विषयेषु प्रवर्तन्तां वा ततो निवर्तन्तां वा। मे तत्र संबन्धलेशोऽपि’ इत्येवं ज्ञानिनो निश्चयसत्त्वादेव स कर्माणि कुर्वन्निव लक्ष्यमाणोऽपि न परमार्थतः किञ्चिदपि करोति।