ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २८४-३१६ महावाक्यार्थोपदेशनिरूपणम्
- २८६-३१६ पूर्वोक्तप्रश्नश्योत्तरम्

- २८६-३१६ लयचिन्तनक्रमः

आवर्तः २९० – सकलमपि प्रपञ्चमीश्वरस्वरूपतया चिन्तयेत्

इत्थं परमार्थतत्त्वे उपदिष्टेऽपि शिष्यमुखेऽप्रसन्नतामालक्ष्य ‘नूनमयमकृतार्थो यतोऽस्य *१ मुखमप्रसन्नमास्ते’ इति गुरुर्निरचिनोत्। अतः पुनरपि तं स्थूलदृष्ट्योपदिशन् *२ प्रपञ्चलयचिन्तनप्रकारमाह यथा मृत्कार्यभूतो घटोऽन्तर्बहिश्च मृदेव भवतीति मृत्कार्यं सर्वमपि मृदेव। यथा च जलकार्यभूतफेनबुद्बुदादिकं सर्वमपि जलमेव भवति। तथा यद्यस्य कार्यं तत्तादृशकारणस्वरूपमेव भवति। न कार्यं कारणस्वरूपादतिरिच्यते।

*१. अभिलषितार्थप्राप्तौ चित्तचाञ्चल्यहेतुभूतेच्छारूपवृत्तिनाशे तेनैव निमित्तेनोदितायामन्तर्मुखायामन्तःकरणस्य सात्त्विकवृत्तौ निश्चलदर्पणादाविव स्वरूपानन्दप्रतिबिम्बो भवति। तमानन्दमनुभवतो मुखविकासो भवति। प्रकृते च शिष्यस्याविद्यातत्कार्यनिवृत्तिपूर्वकपरमानन्दरूपमोक्षो ज्ञानद्वारा प्राप्तुमिष्टः। अभिलषितार्थसिद्ध्यभावाच्च शिष्यस्येच्छारूपचित्तवृत्तिविनाशो नाभवत्। इच्छारूपवृत्तिनिवृत्त्यात्मकनिमित्ताभावादन्तर्मुखवृत्त्युदयः, तस्मिन् स्वरूपानन्दप्रतिबिम्बोदयः, तदनुभवजन्यमुखविकासश्च न शिष्यस्याभवत्। तेन मुखविकासाभावेन शिष्यस्याकृतार्थतानुमिताभूत्।

*२. कार्यस्य कारणस्वरूपतां ज्ञात्वा तदनतिरिक्तत्वचिन्तनमेव लयचिन्तनमुच्यते।

सकलस्य प्रपञ्चस्य मूलकारणमीश्वर एव। तस्मात् सकलोऽपि कार्यप्रपञ्च ईश्वरस्वरूपान्नातिरिच्यते। सकलप्रपञ्चस्यापि स्वरूपमीश्वर एव। ‘स चेश्वरोऽहमेव’ इति ज्ञात्वा सकलप्रपञ्चस्य लयं स्वस्मिन्ननुचिन्तयेत्।