- २८४-३१६ महावाक्यार्थोपदेशनिरूपणम्
- २८६-३१६ पूर्वोक्तप्रश्नश्योत्तरम्
- २९०-२९२ लयचिन्तनक्रमः
आवर्तः २९१ – स्थूलप्रपञ्चस्य पञ्चीकृतभूतस्वरूपत्वं सूक्ष्मसृष्टेरपञ्चीकृतभूतस्वरूपत्वं च चिन्तयेत्
स्थूलमिदं ब्रह्माण्डमखिलमपि पञ्चीकृतभूतकार्यम्। तत्र पृथिवीकार्यं सर्वं पृथिवीस्वरूपम्। जलकार्यं सर्वं जलस्वरूपम्। इत्थमेव यद्यद्भूतकार्यं तत्तद्भूतस्वरूपमित्यखिलस्यापि ब्रह्माण्डस्य पञ्चीकृतपञ्चभूतस्वरूपत्वमनुचिन्तयेत्। तथैव पञ्चीकृतं सर्वमपि भूतमपञ्चीकृतभूतकार्यत्वादपञ्चीकृतभूतस्वरूपमिति चिन्तयेत्। अन्तःकरणादिसूक्ष्मसृष्टिरप्यपञ्चीकृतभूतकार्यत्वादपञ्चीकृतभूतस्वरूपमिति चिन्तयेत्। अन्तःकरणं सर्वभूतसमष्टिसत्त्वगुणकार्यत्त्वात्सत्त्वगुणस्वरूपमेव।
तथा प्राणोऽपि पूर्वोक्तपञ्चभूतसमष्टिरजोगुणकार्यत्वात् रजोगुणस्वरूप एव। पाय्विन्द्रियं पृथिव्या रजोगुणकार्यत्वात् पृथिव्या रजोगुणस्वरूपमेव। घ्राणेन्द्रियं पृथिव्याः सत्त्वगुणकार्यत्वात् पृथिव्याः सत्त्वगुणस्वरूपमेव। तथैव रसनेन्द्रियमुपस्थेन्द्रियञ्च जलस्य क्रमेण सत्त्वगुणरजोगुणकार्यत्वात् तत्तत्स्वरूपमेव। चक्षुरिन्द्रियं पादेन्द्रियञ्च तेजसः क्रमेण सत्त्वगुणरजोगुणस्वरूपे। त्वगिन्द्रियं पाणीन्द्रियञ्च वायोः क्रमेण सत्त्वगुणरजोगुणस्वरूपे श्रोत्रेन्द्रियं वागिन्द्रियं चाकाशस्य क्रमेण सत्त्वगुणरजोगुणस्वरूपे। इत्थं सूक्ष्मसृष्टिः समग्राप्यपञ्चीकृतभूतस्वरूपैवेति चिन्तयेत्।