- २८४-३१६ महावाक्यार्थोपदेशनिरूपणम्
- २८६-३१६ पूर्वोक्तप्रश्नश्योत्तरम्
- २९०-२९२ लयचिन्तनक्रमः
आवर्तः २९२ – अपञ्चीकृतभूतानां प्रकृतौ प्रधाने प्रधानस्य ब्रह्मणि च लयं चिन्तयेत्
प्रागुक्तचिन्तनानन्तरमपञ्चीकृतभूतानामपि लयः चिन्तनीयः। पृथिवी जलकार्यत्वात् जलस्वरूपा जलं तेजःकार्यत्वात्तेजःस्वरूपम्। तेजो वायुकार्यत्वाद्वायुस्वरूपम्। वायुराकाशकार्यत्वादाकाशस्वरूपः। आकाशस्तमोगुणप्रधानप्रकृतिकार्यत्वात्प्रकृतिस्वरूपः। प्रकृतिर्मायाया अवस्थाविशेषत्वान्मायास्वरूपा। एकमेव वस्तु ‘प्रधानम्, प्रकृतिः, माया, अविद्या, अज्ञानम्, शक्तिः’ इत्यनेकशब्दैर्व्यपदिश्यते। तदेव वस्तु सकलमपि कार्यजातं स्वस्मिन्नुपसंहृत्य प्रलयकाले उदासीनस्वरूपेण वर्तमानत्वात् प्रधानम् इत्युच्यते। तदेव वस्तु प्रपञ्चसृष्ट्युपादानतायोग्यतमोगुणप्रधानस्वरूपेण विद्यमानत्वात् *१ प्रकृतिः त्याखायते।
*१. सकलमिदं जगत् यस्मात् प्रकर्षेण क्रियते तादृशं सृष्ट्युपादानभूथं वस्तु ‘प्रकृतिः’ इत्युच्यते। अथवा ‘प्र’ इति सत्त्वगुणः, ‘कृ’ इति रजोगुणः, ‘ति’ इति सत्त्वरजःसहिततमोगुण उच्यते। तथा च तमोगुणप्रधाना प्रकृतिरिति सिद्ध्यति।
देशकालादिसामग्रीं विनैवेन्द्रजालेन दुर्घटानेकपदार्थोत्पादनकाले इन्द्रजालं ‘माया’ इति व्यपदिश्यते। तद्वदेवासङ्गेऽद्वितीये ब्रह्मणि दुर्घटेच्छाद्युत्पादकत्वात्तदेव वस्तु माया इति भण्यते। तदेव वस्तु ब्रह्मस्वरूपावारकत्वाद् अज्ञानं इति कीर्त्यते। तदेव वस्तु ब्रह्मविद्याविनाश्यत्वाद् अविद्या इति वर्ण्यते। तदेव वस्तु कदापि स्वातन्त्र्येणानवस्थितं सत् ब्रह्मचैतन्यमाश्रित्यैव वर्तमानत्वात् शक्तिः इति च व्यपदिश्यते। इत्थं प्रकृत्यादयः प्रधानस्यावस्थाविशेषत्वात्प्रधानस्वरूपा एव भवन्ति। तच्च प्रधानं ब्रह्मचैतन्यस्य शक्तिः। यथा पुरुषगता सामर्थ्यरूपा शक्तिः पुरुषात्पृथक्तया नास्ति तथा ब्रह्मचैतन्यगता प्रधानरूपा *१ शक्तिरपि ब्रह्मचैतन्याद्व्यतिरेकेण नास्ति। इत्थं ब्रह्मचैतन्ये सकलानात्मपदार्थानां लयश्चिन्तनीयः। ततः ‘तादृशमद्वितीयं ब्रह्माहमेव’ इति चिन्तयेत्। यस्य हि *२ मन्दबुद्धेर्बुद्धिमान्द्यादिरूपप्रतिबन्धैः वेदान्तविचारे न प्रवृत्तिरुपजायते। कृते वा विचारे साक्षात्कारो न सम्पद्यते तस्येदं लयचिन्तनरूपं ध्यानमुक्तम्।
*१. ननु यदि ब्रह्मणः शक्तिर्ब्रह्मणो भिन्ना तदा अद्वैतश्रुतिविरोधः। यद्यभिन्ना तदा तस्या ब्रह्मस्वरूपत्वादेव ‘ब्रह्मणः शक्ति’ इति पृथक्तया व्यवहारानुपपत्तिः। तस्माद्ब्रह्मणः शक्तेश्च भेदाभेदौ वाच्यौ। तथात्वे च तमःप्रकाशयोरिव विरुद्धस्वभावयोर्भेदाभेदयोः सामानाधिकरण्यानुपपत्तिरिति चेन्न। रज्वा सह सर्पस्येव ब्रह्मणा सह शक्तेः कल्पितभेदो वास्तवाभेदश्चेत्यनिर्वचनीयतादात्म्यसंबन्धोऽभ्युपेयते। ततश्च शक्तेः स्वाश्रयेण सह वास्तवभेदाभावात् केनापि प्रमाणेन तस्याः स्वाश्रयाद्भिन्नतया प्रतीत्यभावाच्च प्रलयकाले मायायाः सत्त्वेऽपि न तया ब्रह्मणः सद्वितीयत्वम्। सृष्टिकालेऽपि मायाकार्यद्वैतप्रपञ्चे प्रतीयमानेऽपि न तेन प्रपञ्चेन ब्रह्मणः सद्वितीयत्वम्। रज्जौ कल्पितसर्पादेर्यथा परमार्थतो रज्जुस्वरूपत्वमेव तथा ब्रह्मणि कल्पितप्रपञ्चस्यापि परमार्थतो ब्रह्मस्वरूपत्वेन तदतिरेकेण प्रपञ्चस्याभावात्। तस्माद्ब्रह्म सदाद्वितीयमेव।
*२. अत्रादिशब्देन वर्तमानो भूतो भावी चेति त्रिविधः प्रतिबन्धो ग्राह्यः। (२.१) तत्रेष्टवस्तुषु ‘अहं’, ‘मम’ इति दृढतरवासनारूपा विषयासक्तिः, (२.२) परोक्तार्थग्रहणसामर्थ्याभावरूपबुद्धिमान्द्यम्, आचार्याद्याप्तोक्तार्थे विश्वासाभावादन्यथाकल्पनरूपः कुतर्कः, देहादिष्वात्मबुद्धिरूपो विपर्ययाख्यदुराग्रह इत्येतच्चतुष्टयं वर्तमानप्रतिबन्धः। धनपुत्रकलत्रादीष्टवस्तुनाशानन्तरमपि तदनुचिन्तनं भूतप्रतिबन्धः। ब्रह्मलोकादिप्राप्तीच्छा भाविजन्महेतुभूतप्रारब्धकर्मशेषो वा भाविप्रतिबन्धः। एतेषां ज्ञानोत्पत्तिप्रतिबन्धकानां निरूपणं पञ्चदश्यां ध्यानदीपे ३८-५३ श्लोकेषु द्रष्टव्यम्।