- २८४-३१६ महावाक्यार्थोपदेशनिरूपणम्
- २८६-३१६ पूर्वोक्तप्रश्नश्योत्तरम्
आवर्तः २९३ – ज्ञानध्यानयोर्भेदः, अहंग्रहध्यानं च
ज्ञानं हि प्रमाणप्रमेययोरधीनम्, न तु विधेः पुरुषेच्छादेर्वाधीनम्। ध्यानं तु विधेः पुरुषेच्छाश्रद्धयोः हठात्कारस्य चाधीनम्।
तत्र प्रत्यक्षज्ञाने प्रमाणं चक्षुरादीन्द्रियम्, प्रमेयो घटादिः। घटचक्षुषोः सन्निकर्षे सति विनापि पुरुषस्येच्छादिकं घटप्रत्यक्षं भवति। ‘चतुर्थ्यां चन्द्रो न द्रष्टव्यः’ इति निषेधोऽस्ति। तथा सत्यपि ‘अस्मिन् दिने चन्द्रमहं न पश्येयम्’ इति निश्चयवतोऽपि पुरुषस्यानिच्छत एव येन केनापि कारणेन चक्षुश्चन्द्रयोः प्रमाणप्रमेययोः सन्निकर्षे सति चन्द्रस्य प्रत्यक्षज्ञानं जायत एव। इत्थं *१ ज्ञानं प्रमाणप्रमेयमात्राधीनम्। न तु विधेः पुरुषेच्छादेर्वाधीनम्।
*१. ज्ञानं त्रिविधम् भ्रमज्ञानम्, स्मृतिज्ञानम्, प्रमाज्ञानं चेति। तत्र भ्रान्तिज्ञानं केवलं कल्पितवस्त्वधीनम्। स्मृतिज्ञानं स्वविषयसदृशवस्तुदर्शनेन वा तत्संबन्धिवस्तुदर्शनेन वोदिता या पूर्वानुभूतवस्तुविषयकमनोवृत्तिस्तदधीनम्। प्रमाज्ञानं त्वन्तर्गतसुखादिविषयकज्ञानं न्यायमते वाचस्पतिमते च मनोरूपप्रमाणस्य सुखादिरूपप्रमेयस्य चाधीनम्। सिद्धान्ते तु मनसः प्रमाणत्वानभ्युपगमेन सुखादिज्ञानं केवलप्रमेयाधीनम्। बाह्यप्रमाज्ञानं तु इन्द्रियानुमानादिरूपप्रमाणस्य प्रमेयरूपवस्तुनश्च संबन्धाधीनम्।
शब्दप्रमाणजन्यब्रह्मज्ञानरूपा शाब्दीमा तु महावाक्यरूपशब्दप्रमाणस्य प्रत्यगभिन्नब्रह्मरूपप्रमेयस्य च यो लक्षणावृत्तिरूपपरम्परासंबन्धस्तज्ज्ञानाधीना। इतरलौकिकपदार्थविषयकशाब्दी प्रमा तु क्वचित् शक्तिवृत्तिरूपसंबन्धज्ञानाधीना। क्वचिल्लक्षणावृत्तिरूपसंबन्धज्ञानाधीना।
इत्थं च किञ्चिज्ज्ञानं ज्ञेयवस्तुमात्राधीनम्। किञ्चिज्ज्ञानं प्रमाणप्रमेयसंबन्धाधीनम्। अथवा तत्संबन्धज्ञानाधीनम्। भ्रमप्रमासाधारण्येन ज्ञानस्य विषयो प्रमेय इत्युच्यते। तत्र ज्ञेयत्वमप्यस्ति। इत्थं सर्वमपि ज्ञानं वस्त्वधीनमेव। ‘इदं वस्तु ‘ इह ‘ज्ञानम्’ ] इति शब्देन ईश्वरसृष्टेन वा मनोमयेन वा (परोक्षज्ञानविषयेण वा) भ्रमसिद्धेन वा वस्तुना प्रमाणद्वारा साक्षाद्वा वृत्तेः संबन्धो गृह्यते। तस्माज्ज्ञानं न विध्याद्यधीनम्। ध्यानरूपमुपासनं तु न वस्त्वधीनम्। किन्तु कर्त्रधीनम्। ध्यानमपि मनोवृत्त्यात्मकमेव तथापि पुरुषस्येच्छाद्यधीनं तद्भवति। न वस्त्वधीनम्। तस्माच्यानं मानसत्वेऽपि न ज्ञानम्। किन्तु क्रियैव।
ब्रह्मसाक्षात्काररूपज्ञाने प्रत्यगभिन्नं ब्रह्म प्रमेयं वेदान्तमहावाक्यं प्रमाणम् गुरुमुखाद्वेदान्तश्रवणं कुर्वतो वेदान्तमहावाक्याद्ब्रह्मात्मसाक्षात्कारो जायते। महावाक्यरूपप्रमाणमन्तरा केवलेच्छादिना नात्मसाक्षात्कारो भवति। उपासनं त्वैश्वर्यं विधिमपेक्षते। शास्त्रविधिमनुसृत्य क्रियमाणमेवोपासनं फलाय कल्पते। विधिमन्तरा स्वेच्छया स्वसङ्कल्पानुसारेण यत्किञ्चिदर्थध्यानं नेष्टफलाय प्रभवति।
‘सालग्रामशिला विष्णुरूपा’ इति ध्यायत उत्तमं फलं भवति। तत्र पुरुषः शास्त्रेण विष्णुं चतुर्भुजत्वेन शङ्खचक्रगदापद्मलक्ष्मीसहितत्वेन च जानाति। चक्षुषा तु सालग्रामं शिलात्वेनैव जानाति। तथापि शास्त्रविधौ विश्वासेन ध्यानफले इच्छया च ‘सालग्रामं विष्णुः’ इति ध्यायति पुरुषः।
तदिदं ध्यानमनेकविधम्। सालग्रामशिलायां विष्णुबुद्धिकरणवदन्यस्मिन्नन्यबुद्धिकरणं प्रतीकध्यानम्। वैकुण्ठवासिनो विष्णोश्चतुर्भुजत्वादिरूपेण ध्यानं तु नान्यस्मिन्नन्यबुद्धिकरणरूपं प्रतीकध्यानम्। किन्तु तद्ध्यानं ध्येयवस्तुस्वरूपानुसारि ध्यानमेव। वैकुण्ठवासिनो विष्णोः स्वरूपं न प्रत्यक्षगोचरम्, किन्तु शास्त्रैकसमधिगम्यम्। शास्त्रे च विष्णोः स्वरूपं चतुर्भुजत्वेन शङ्खचक्राद्युपेतत्वेन च वर्णितम्। अतस्तथा विष्णोर्ध्यानं *१ ध्येयवस्तुस्वरूपानुसार्येव। विधिशास्त्रे विश्वासस्य, इच्छादेश्चाभावे ध्यानं न सिद्ध्यति। ‘इदमुपासीत’ इत्येवंरूपं पुरुषस्य प्रवर्तकं वचनं विधिः। तद्वचने श्रद्धा विश्वासः। अन्तःकरणस्य रजोगुणपरिणामरूपा कामात्मिका वृत्तिरिच्छा। हठादपि ध्यानं सिद्ध्यति। ज्ञाने तु न तदपेक्षा। नैरन्तर्येण ध्येयाकारचित्तवृत्तिप्रवाहो हि ध्यानम्। तत्र चित्तवृत्तेर्विक्षेपे सति हठात्तां स्थिरीकुर्यात्। ज्ञानरूपान्तःकरणवृत्त्युदयकाल एव विषयावरणभङ्गस्य सिद्धत्वाद्वृत्तिस्थैर्यसम्पादनस्य नास्त्युपयोगः। तस्मान्न ज्ञाने हठापेक्षा। अहङ्ग्रहध्यानम् वैकुण्ठवासिचतुर्भुजविष्णुध्यानवत् ‘अहं ब्रह्म’ इति ध्यानमपि ध्येयस्वरूपानुसार्येव ध्यानम्, न तु प्रतीकध्यानम्। किन्त्विदमहङ्ग्रहध्यानम्। ध्येयस्वरूपस्य स्वाभिन्नतयानुसन्धानम् अहङ्ग्रहध्यानम् उच्यते। यस्य वेदान्तविचारेऽप्यपरोक्षज्ञानं नोदेति, स वेदस्याज्ञारूपोपासनाविधिवाक्ये विश्वासवान् नैरन्तर्येण हठात् ‘अहं ब्रह्मास्मि’ इत्यहङ्ग्रहध्यानमनुतिष्ठेत्। तस्य क्रमेण ज्ञानोत्पत्तिद्वारा *२ मोक्षः सिद्ध्यति।
*१. यस्य बुद्धिः शास्त्रोक्ते परोक्षे ध्येये न सहसा स्थिरीभवति, स पुरुषप्रेरकेण शास्त्रविधिना बोधिते परोक्षध्येयप्रतिनिधिभूते प्रत्यक्षे सालग्रामादौ अन्यस्मिन् वा ध्येयविष्णुबुद्धिकरणरूपम् अन्यबुद्धिकरणरूपं वा प्रतीकध्यानं कुर्यात्। ‘अहं ब्रह्मास्मि’ इति निर्गुणोपासनं त्वहङ्ग्रहध्यानं ध्येयस्वरूपानुसारित्वात्तस्य
*२. यद्यप्यत्र ध्यानविषयीभूतं ब्रह्म न परमार्थरूपम्, किन्तु मनः कल्पितमेव। तस्मात्तद्विषयकचित्तवृत्तिप्रवाहरूपध्यानमपि भ्रान्तिज्ञानमेव न यथार्थज्ञानम्। तथापि मणिप्रभायां मणिबुद्धिरूपसंवादिभ्रान्त्या धावतः पुंसो मणिज्ञानद्वारा मणिलाभवत् प्रकृताहङ्ग्रहध्यानेन ब्रह्मज्ञानलाभेन मोक्षः सिच्यत्येव।