ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २८४-३१६ महावाक्यार्थोपदेशनिरूपणम्

- २८४-३१६ पूर्वोक्तप्रश्नश्योत्तरम्

आवर्तः २८६ – अकर्तुरभोक्तुर्नित्यमुक्तस्यात्मनः सदा ब्रह्माभेदः सिद्ध एव

ब्रह्मस्वरूपादात्मनो भिन्नतया दृश्यमानं शास्त्रेषु श्रुतं च पुण्यपापस्वर्गनरकादिकं सर्वं मिथ्येति विजानीहि। न हि मिथ्यावस्त्वधिष्ठानं दूषयति। स्वप्ने भिक्षाटन् राजा न दरिद्रो भवति। न मरीचिकोदकेन भूमिराद्रभवति। न मिथ्यासर्पेण रज्जुः सविषा भवति। अतस्त्वं मिथ्याभूतसकलशुभाशुभकर्मणां कर्तापि वस्तुतो न कर्ता, अकर्तृत्वाभोक्तृत्वादिबोधकश्रुतिप्रमाणात्। इत्थं तव स्वरूमत्याश्चर्यं निरुपमं च भवति। अस्यायमभिप्रायः। तव ब्रह्माभिन्ने स्वरूपे स्थूलसूक्ष्मशरीरे तत्फलजन्ममरणस्वर्गनरकसुखदुःखादिकं सर्वमविद्यया कल्पितम्। तव ब्रह्मस्वभावस्ताभिः कल्पितसामग्रीभिर्नान्यथा भवति। तस्माज्ज्ञानात् पूर्वमप्यात्मा ब्रह्मस्वरूप एवास्ते। कालत्रयेऽप्यात्मनि शरीरस्य तद्धर्माणां च संबन्धो नास्ति। आत्मा सदा नित्यमुक्त वास्ते। आत्मनो ब्रह्मणश्च न कदापि भेदोऽस्ति।