ॐ गुरुपरमात्मने नमः

- १-३९ प्रथमतरङ्गः -- अनुबन्धानां सामान्यतो निरूपणम्
- १४-३८ साधनचतुष्टयनिरूपणम्
- ३३-३८ प्रयोजननिरूपणम्


आवर्तः ३५ – तत्समाधिः – प्राप्तप्राप्तिरप्युपपद्यत एव्

एतादृशपूर्वपक्ष्याक्षेपश्रवणमात्रेणाद्वैतग्रन्थोक्तप्रयोजने ऽनादरो न कार्यः। वेदान्तज्ञानोपदेष्टृसद्गुरुकृपालेशपात्रीभूतानामीदृशाशेषसन्देहतूलनिरासस्य दृष्टान्तप्रचण्डवातबलेन सुकरत्वात्।

Merely listening to these kinds of ākṣepas should not result in anādara to the prayojana of the grantha. Even one who has only a little kr̥pā from a sadguru and has listened to the vedānta upadeśa will be able to discard these doubts just like a great wind casts aside a piece of cotton.

तथा हि, कश्चन पुरुषः भ्रान्त्या स्वकरस्थकङ्कणं नष्टं मत्वा, अन्वेषमाण इतस्ततो भ्रमन्, अन्येन केनचिदाप्तेन प्रबोधितः सन्, प्राप्तमेव करस्थं कङ्कणमपूर्वतया प्राप्तमिति मन्यमानः ‘मम कङ्कणमिदानीमुपलब्धम्’ इति यथा वदति; तथैव परमानन्दस्वरूपे स्वात्मनि नित्यापरोक्षतया सदाप्राप्तोऽप्यविद्यावशादप्राप्तत्वभ्रान्त्या ‘नाहं परमानन्दस्वरूपः, किन्तु ब्रह्मैव तथा; ततो विलक्षणस्य मम तदुपासनया तादृशब्रह्मप्राप्तिः संपाद्या’ इति मूढो भ्रान्त्या प्रतिपद्यते। एवंवित् पण्डितोऽपि मूढतम एव।

For example, some person mistakenly thought his bracelet which was on his arm was missing, and was searching for it here and there. When another pointed out where it was, he thought he had obtained it newly and said “I have now gotten my bracelet”. In the same way, even though the paramānada svarūpa ātma is nitya, aparokṣa and always there; it is still thought to be unobtained due to bhrānti stemming from ignorance. Thus, the mūḍha says “ī am not paramānanda svarūpa; only brahma is like that; I am different from brahma and through upāsanā on it, I will obtain that brahma.” Even a paṇḍita that who thinks this is indeed foolish.

“अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुः” (बृ. 1.4.10),
“तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते” (के. 1.4.8),
“योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते।
किं तेन न कृतं पापं चौरेणात्मापहारिणा”

इत्यादिश्रुतिस्मृतिशतेभ्यो जीवब्रह्मभेदवादिनां मूर्खत्वाङ्गीकारात्। इत्थंभूतानामपि मूर्खाणामनन्तजन्मार्जितपुण्यपुञ्जवशात् संस्कृतचित्तानां, प्रशान्तचित्तात् ब्रह्मविद्वरिष्ठात् सद्गुरोर्यदि कदाचिद् वेदान्तश्रवणं लभ्येत, तदा “परमानन्दो वेदान्तवाक्यैः सद्गुरुकृपाकटाक्षलेशेन चास्माभिः प्राप्त” इति मतिर्जायेत।

Many hundreds of śruti statements attest that the bheda vādis are foolish. Even such people who due to the puṇya from countless lives have a pure mind and get vedānta śravaṇa from a calm-hearted brahma-vid sadguru will think “I have obtained the paramānanda through the vedānta vākyas by the kr̥pā of the sadguru”.

अयं भावः – आत्मनः परमानन्दस्वरूपत्वेऽपि स्वप्रकाशापरोक्षस्वरूपत्वेऽपि स्वाविद्यावृतत्वादप्राप्तवत्तेषां स्वस्वरूपं पूर्वमभात्। यदा तु श्रीमदाचार्यमुखाद्वेदान्तश्रवणेन स्वस्वरूपभूत एव परमानन्दो बुद्धाववभासते, तदैव स अपूर्वतया प्राप्तवद्व्यवह्रियते। एवमेव प्राप्तस्यापि पुनः प्राप्तिकथनमुपपद्यते। तस्मात् परमानन्दप्राप्तिरेवास्य ग्रन्थस्य परमप्रयोजनमिति युक्तमेवोक्तम्।

This is the essence – Though the ātma is paramānanda svarūpa, svaprakāśa and aparokṣa, due to the covering by avidya, it appears as not obtained. When the vedānta śravaṇa takes place from the ācārya, the thought that the paramānanda is one’s own svarūpa arises in the mind. Such a person acts like it was newly obtained. In this way, we can talk of obtaining what is already obtained. Thus, the parama prayojana of this grantha, which is obtaining the paramānanda prāpti is indeed appropriate.