- १४-३८ साधनचतुष्टयनिरूपणम्
- ३३-३८ प्रयोजननिरूपणम्
आवर्तः ३४ – प्रथमाक्षेपः – परमानन्दावाप्तिः मोक्षः इति न सङ्गच्छते
यदुक्तमनर्थनिवृत्तिः परमानन्दावाप्तिश्च ग्रन्थस्य परमप्रयोजनमिति, तन्न सङ्गच्छते। यतः सर्वेष्वपि *२ वेदान्तेषु जीवस्य परमानन्दरूपत्वं वर्णितम्। भवद्भिरपि तथैवाङ्गीकृतम्। लोके त्वप्राप्तस्यैव प्राप्तिर्युज्यते। न तु सदाप्राप्तस्यैव प्राप्तिः कदाचिदपि सङ्गच्छते। तस्मात् सदा परमानन्दस्वरूपस्यैव सत आत्मनः पुनः परमानन्दप्राप्तिकथनं सर्वथाप्यसंभावितमेवेति।
First objection – the parama prayojana of this grantha is the removal of anartha, and obtaining paramānanda. This is not possible. In all the vedānta granthas, jīva is described as having the nature of paramānanda. Even the siddhantis agree with this. In the world, only that which is not already obtained can be obtained. That which is always obtained cannot be obtained, under any circumstances. Thus, obtaining the paramānanda when ātma is always paramānanda svarūpa is totally impossible.
*२. “विज्ञानमानन्दं ब्रह्म” (बृ॰उ॰ 3.9.27) इत्याद्यनन्तश्रुतयः। अस्यार्थस्तु – विज्ञानं जीवचैतन्यं, आनन्दं ब्रह्मैव, न ततोऽतिरिच्यते इति।