ॐ गुरुपरमात्मने नमः

- १-३९ प्रथमतरङ्गः -- अनुबन्धानां सामान्यतो निरूपणम्
- १४-३८ साधनचतुष्टयनिरूपणम्

- १४-३८ प्रयोजननिरूपणम्

आवर्तः ३३ – प्रयोजनलक्षणम्

सर्वप्रपञ्चकारणीभूताज्ञानं तत्कार्यदृश्यजातं सर्वं द्वैतं च जननमरणप्रबन्धरूपाखिलदुःखनिदानत्वात् महानर्थ इति श्रुतिस्मृतिपुराणेतिहासानुभवादिसकलप्रमाणसिद्धम्। ईदृशानर्थनिवृत्तिः परमानन्दावाप्तिश्च मोक्ष इत्युच्यते। अयमेव मोक्षोऽस्य ग्रन्थस्य परमप्रयोजनम्। ज्ञानं तु अवान्तरप्रयोजनम्।

All the śrutis, smr̥tis, purāṇas, itihāsas etc are aligned on ajñāna, it’s effects and all dvaita as being the cause of all sorrow such as the sequence of births and deaths. Freedom from this anartha, and obtaining paramānanda is called mokṣa. This mokṣa is the prayojana of this grantha. jñāna is the minor prayojana.

पुरुषस्य यद्विषये उत्कटेच्छा जायते तदेव तस्य परमं प्रयोजनं पुरुषार्थ इति चोच्यते। सकलजनानां च दुःखनिवृत्तौ सुखावाप्तौ चेदृशीच्छा संजायते। पूर्वोक्तानर्थद्वैताभावोपलक्षितपरमानन्दचिदेव मोक्षस्वरूपम्। अत एव मोक्षः परमप्रयोजनं, न ज्ञानम्। दुःखनिवृत्तावानन्दावाप्तौ च ज्ञानस्य हेतुत्वात् तस्य दुःखनिवृत्यानन्दरूपत्वाभावाच्च ज्ञानं अवान्तरप्रयोजनम्। परमप्रयोजनावाप्तौ यत् द्वारीभवति तद् अवान्तरप्रयोजनम्। यथा कदलीफलप्राप्तौ तत्पत्रपुष्पादि। एतादृशवेदान्तग्रन्थजनितज्ञानद्वारा मुक्तिरूपपरमप्रयोजनफलप्राप्तौ ज्ञानमवान्तरप्रयोजनं भवति।

That in which people have great desire is their parama prayojana, and is called a puruṣārtha. All people have such desire in removing sorrow and obtaining happiness. The svarūpa of mokṣa is paramānanda cit which is free from dvaita that is anartha. Thus, it is mokṣa that is the parama prayojana, and not jñāna. Since jñāna is a cause for the removal of sorrow and obtaining happiness, but it is not itself free from dukha or of the nature of ānanda, it is only the minor prayojana. That which is a means for parama prayojana is the avāntara prayojana. Just as the leaves and fruits of a plantain tree are the means for it’s fruit; so also through the jñāna born of the vedānta grantha, jñāna is the avāntara prayojana for obtaining the parama prayojana that is mukti.