आवर्तः ४८० – विक्षेपः
यथा हि बहिर्मार्जारादिभयाच्चटका गृहान्तः प्रविश्य भयक्लेशव्याकुलतादिनिवृत्तियोग्यं स्थलं तत्कालं तत्रापश्यन्ती बहिरेव पुनरागत्य भयं वा मरणादिरूपं दुःखं वा प्राप्नुयात् तथैव बहिरनात्मपदार्थान् दुःखहेतुत्वेन बुद्धाद्वैतानन्दं विषयीकर्तुं चित्तवृत्तिरन्तर्मुखीभूय, प्रत्यक्चैतन्यस्वरूपस्यात्मनोऽत्यन्तसूक्ष्मत्वात् किञ्चित्कालमपि तत्र स्थैर्यमप्राप्य चैतन्यस्वरूपानन्दमननुभूय पुनर्बहिर्मुखीभवति। ईदृग्वृत्तिरेव बहिर्मुखीभूता विक्षेप इत्युच्यते। चित्तवृत्तेः स्थिरतां विना न स्वरूपानन्दस्य लाभो भवति। तस्मात् वृत्तावन्तर्मुखीभूतायामपि यावन्न सा ब्रह्माकारतां भजते, तावद्योगी नियतमानसो बाह्येष्वनात्मपदार्थेषु पुनः पुनर्दोषभावनया वृत्तिं निरुद्ध्य अन्तर्मुखामेव तां स्थापयेत्। विक्षेपरूपविघ्नविरोधी योगिप्रयत्नः शम इति गौडपादाचार्यैरुच्यते।