ॐ गुरुपरमात्मने नमः

- ४६४-५३८ सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्


आवर्तः ४७९ – निर्विकल्पसमाधौ लयविक्षेपकषायरसास्वादरूपविघ्नचतुष्टयनिरूपणम्

निर्विकल्पसमाधौ चत्वारो विघ्नाः स्युः। तन्निवृत्त्यर्थं तत्स्वरूपं कथ्यते। (१) लयः, (२) विक्षेपः, (३) कषायः, (४) रसास्वाद इति विघ्नाः चत्वारः।

तत्र लयः – आलस्येन निद्रया वा वृत्त्यभावो लय इत्युच्यते। तस्मिन्सति सुषुप्तितुल्यावस्था समाधिनिष्ठस्य जायते। ब्रह्मानन्दोऽपि तदा तिरोभवति। तस्मान्निद्रालस्यादिनिमित्तैर्यदा वृत्तिः स्वोपादानेऽन्तःकरणे लीयेत, तदा योगी सावधानः सन् निद्रादिकं निरुध्य वृत्त्युत्पादनं कुर्यात्। इदमेव *२ श्रीगौडपादाचार्यैश्चित्तसम्बोधनमित्युक्तम्। लयरूपस्य विघ्नस्य विरोधि निद्रालस्यादिनिरोधकं वृत्तिप्रवाहरूपं जागरणमेव चित्तसम्बोधनम्।

*२. गौडपादाचार्यैर्माण्डूक्योपनिषत्कारिकायां कथितम्।