आवर्तः ४७८ – अद्वैतावस्थानरूपसमाधिसुषुप्त्योर्भेदः
अद्वैतावस्थानरूपसमाधेः सुषुप्तेश्चेयान् भेदः। (१) सुषुप्तावन्तःकरणं तद्वृत्तिश्चाज्ञाने लीयते। (२) अद्वैतावस्थानरूपसमाधौ तु *१ वृत्तिर्ब्रह्मप्रकाशचैतन्ये प्रलीयत इति। किञ्च (१) सुषुप्तौ स्वरूपानन्दोऽज्ञानावृतो भवति। (२) अत्र तु समाधौ निरावरणो ब्रह्मानन्दो विभाति।
*१. ननु वृत्तिर्निर्विकारे ब्रह्मप्रकाशचैतन्ये प्रलीयते इत्यसङ्गतमेवोक्तम्। तस्य तदनुपादानत्वात्। उपादान एव च कार्यलयौचित्यात् इति चेत्। पूर्वक्ते दृष्टान्तेऽपि हि विचारदृष्ट्या जलबिन्दुर्न तप्तायसि लीयते। अनुपादानत्वात्। किन्तु स्वोपादानभूतेऽग्नावेव। अतो यथा तत्र अयोलयस्त्वौपचारिकः तथात्रापि पूर्वोक्तसमाधिदशायां राजसतामसगुणानां निःशेषं नाशादाविर्भूते सत्त्वगुणात्मके स्वोपादन एवाज्ञाने वृत्तेर्लयः। न निर्विकारस्वप्रकाशब्रह्मचैतन्ये। अथापि स्वप्रकाशब्रह्मावभासनिमित्तत्वाद्वृत्तिलयस्य ब्रह्मप्रकाशे वृत्तेर्लयोक्तिरौपचारिकी।
अथवा तादृशसमाध्यनुभवितृब्रह्मविद्वरिष्ठदृष्ट्या गुणादीनामप्रतीतेः शुद्धं ब्रह्मैव प्रकाशते इति तत्र तद्वृत्त्यभावो जायते। अत एव च ब्रह्मप्रकाशचैतन्ये वृत्तेर्लयः कथ्यते इति मन्तव्यम्।