-
४६४-५३८
सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्
आवर्तः ४७७
निर्विकल्पसमाधिः अपि द्विविधः – (१) एकोऽद्वैतभावनारूपः, (२) अपरोऽद्वैतावस्थानस्वरूपः। अद्वैतब्रह्माकारान्तःकरणवृत्तिः अद्वैतभावनारूपनिर्विकल्पसमाधिरित्युच्यते। एतत्समाध्यभ्यासाधिक्ये सति ब्रह्माकारा वृत्तिरपि शान्ता भवति। सैव वृत्तिरहितावस्थाद्वैतावस्थानरूपनिर्विकल्पसमाधिरित्युच्यते। यथा सन्तप्तायसि निक्षिप्तो जलबिन्दुस्तस्मिन्नेव प्रविशति। तथाद्वैतभावनारूपः समाधिरपि दृढाभ्यासवशादत्यन्तं प्रकाशमाने ब्रह्मात्मनि प्रविशति। अत्र *२ प्रथमः समाधिः *३ द्वितीयस्य साधनं भवति।
*२. अद्वैतभावनारूपः समाधिः।
*३. अद्वैतावस्थानरूपस्य। समाधिरयं ज्ञानस्य सप्तमभूमिकारूपयोगस्य परमोऽवधिः।