ॐ गुरुपरमात्मने नमः

- ४६४-५३८ सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्


आवर्तः ४७६ – सुषुप्तिनिर्विकल्पसमाध्योर्भेदः

सुषुप्तावन्तःकरणवृत्तिर्ब्रह्माकारतां न प्राप्नोति। किन्तु कारणाज्ञानात्मतां भजते। निर्विकल्पसमाधौ तु ब्रह्माकारतयान्तःकरणवृत्तिर्वर्तते। इत्थम् • सुषुप्तौ सवृत्तिकान्तःकरणस्याभावः। निर्विकल्पसमाधौ सवृत्तिकान्तःकरणस्य सत्त्वेऽपि न प्रतीतिः। *१ निर्विकल्पसमाधौ अन्तःकरणस्य ब्रह्माकारवृत्त्युत्पत्तौ सविकल्पसमाध्याभ्यासो हेतुः। तस्मादेव साधनरूपाष्टाङ्गेषु सविकल्पः समाधिरपि गण्यते। निर्विकल्पसमाधिस्तु तस्य फलम्।

*१. वायूपादानकत्वादग्न्युत्पत्तिस्थितिनाशानां वायुरुपादानकारणमग्नेः। यथा वायोरभावे दीपः प्रशाम्यति। अनुकूलवायुप्रदेशे अचलः प्रकाशते। तथैव समाधावन्तःकरणस्य सुतरामभावे शरीरं पतेत्। तस्मान्मनोबुद्धिचित्ताहङ्कारादिवृत्तिं विना सूक्ष्मरूपेण निर्वृत्तिकमेवान्तःकरणमास्ते। समाधेरुत्थानसमये समाधिसुखस्मरणसत्त्वात् अननुभूते च स्मरणासंभवात् समाधावपि वृत्तिसद्भावोऽनुमीयते। समाधावन्तः करणाभावे योगिशरीरं पतेदेव सुप्तदेहवत्। न तु तथा पतति। तस्मात् समाधावन्तःकरणमस्त्येवेति स्वीकर्तव्यमिति तात्पर्यम्।