- ४६९-४७५ समाध्यष्टाङ्गनिरूपणम्
आवर्तः ४७५ – समाधिः
निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः।
वृत्तिविस्मरणं सम्यक्समाधिर्ज्ञानसंज्ञकः॥
अथातः संप्रवक्ष्यामि समाधिं भवनाशनम्।
समाधिः संविदुत्पत्तिः परजीवैकतां प्रति॥
महावाक्यलक्ष्यस्वरूपसाक्षात्कार एव समाधिरिह विवक्षित इत्यर्थः।
व्युत्थानसंस्कारतिरस्कारेण निरोधसंस्कारप्रकटनेन च सहान्तःकरणस्यैकाग्रतापरिणामः समाधिः। अयञ्च समाधिर्द्विविधः – (१) सविकल्पसमाधिः, (२) निर्विकल्पसमाधिश्चेति। (१) ज्ञातृज्ञानज्ञेयरूपत्रिपुटीभानसहिताद्वितीयब्रह्मविषयकान्तःकरणवृत्त्यवस्थितिः सविकल्पसमाधिरित्युच्यते। स च द्विविधः ( १.१) शब्दानुविद्धः (१.२) शब्दाननुविद्धश्चेति। (१.१) ‘अहं ब्रह्मास्मि’ इति शब्देन सहितो यः स शब्दानुविद्धः। (१.२) तद्रहितस्तु शब्दाननुविद्धः। (२) त्रिपुटीभानरहिताखण्डब्रह्माकारान्तःकरणवृत्त्यवस्थितिः निर्विकल्पसमाधिरित्युच्यते। एवं सविकल्पनिर्विकल्पभेदेन समाधिर्द्विविधः।
तत्र सविकल्पसमाधिः साधनम्। निर्विकल्पसमाधिः फलम्। साधनात्मकसविकल्पसमाधौ यद्यपि त्रिपुटीरूपद्वैतप्रतीतिरस्ति। तथापि तद् द्वैतं कारणब्रह्मात्मनैव प्रतीयते। न पृथक्। यथा मृद्विकारान् मृद्रूपत्वेन जानतो विवेकिनो मृद्विकारा घटादयो मृद्रूपा एव प्रतीयन्ते तथा सविकल्पकसमाधौ त्रिपुटीरूपद्वैतमपि ब्रह्मात्मनैव प्रतीयते। निर्विकल्पसमाधावपि सविकल्पसमाधाविव त्रिपुटीरूपं द्वैतं विद्यमानमपि न प्रतीयते। यथा जले निक्षिप्तो लवणपिण्डो निलीनो विद्यमानोऽपि नेत्रेण न गृह्यते तद्वत्। तथा च सविकल्पनिर्विकल्पसमाध्योरयं भेदः – (१) सविकल्पसमाधौ ब्रह्मस्वरूपेण द्वैतं प्रतीयते। (२) निर्विकल्पसमाधौ त्रिपुटीरूपं द्वैतं न प्रतीयत इति।