-
४६४-५३८
सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्
- ४६९-४७५ समाध्यष्टाङ्गनिरूपणम्
- ४६९-४७५ समाध्यष्टाङ्गनिरूपणम्
आवर्तः ४७४ – प्रत्याहारधारणाध्यानानि
स्वस्वविषयेभ्यः सकलेन्द्रियनिरोधः *१ प्रत्याहारः। नैरन्तर्येणान्तःकरणस्यैकाकारतास्थितिः *२ धारणा। बह्वन्तराययुक्ताद्वितीयप्रत्यग्ब्रह्मणि प्रवहदन्तःकरणप्रवाहो *३ ध्यानम् इत्युच्यते।
१. विषयेष्वात्मतां दृष्ट्वा मनसश्चित्तमज्जनम्।
प्रत्याहारः स विज्ञेयोऽभ्यसनीयो मुमुक्षुभिः॥
*२. यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनम्।
मनसो धारणञ्चैव धारणा सा परा मता॥
*३. ब्रह्मैवास्मीति सद्वृत्तया निरालम्बतया स्थितिः।
ध्यानशब्देन विख्याता परमानन्ददायिनी॥