- ४६९-४७५ समाध्यष्टाङ्गनिरूपणम्
आवर्तः ४७३ – प्राणायामः
चित्तादिसर्वभावेषु ब्रह्मत्वनैव भावनात्।
निरोधः सर्ववृत्तीनां प्राणायामः स उच्यते॥
आसनसिद्ध्यनन्तरं प्राणायामः कर्तव्यः। प्राणायामस्त्वनेकविधः *२। तथापि तल्लक्षणं सङ्ग्रहेणोच्यते – (१) नासिकाया वामच्छिद्रस्थेडाख्यनाडीद्वारा वायोरन्तः पूरणं कार्यम्। तदेव *३ पूरकम् इत्युच्यते। (२) दक्षिणनासिकास्थपिङ्गलाख्यनाडीद्वारा वायोर्बहिर्निःसरणं कार्यम्। तदेव *४ रेचकम् इत्युच्यते। (३) सुषुम्नाद्वारा वायोर्निरोधनं कार्यम्। तदेव *५ कुम्भकम् इत्युच्यते।
*२. केचन प्राणायामम् (१) बाह्यम्, (२) आभ्यन्तरम्, (३) स्तम्भवृत्तिकमिति वदन्ति। निश्वासं कृत्वा तद्गतिनिरोधो बाह्यः। प्राणोच्छ्रासं कृत्वा तन्निरोधः आभ्यन्तरः। बाह्यान्तर्गतेः समकालं निरोधः स्तम्भवृत्तिरिति च।
*३. अहं ब्रह्मास्मीति भावना पूरकः।
*४. अनात्मप्रपञ्चनिषेधो रेचकः।
*५. अखण्डाकारवृत्त्याचलता कुम्भकः।
इत्थं क्रियमाणानां पूरकरेचककुम्भकानां समुदायः प्राणायाम इत्युच्यते। स च प्राणायामो द्विविधः – (१) एकोऽगर्भः, (२) अपरः सगर्भः। (१) प्रणवोच्चारणं विना क्रियमाणः प्राणायामोऽगर्भः। (२) प्रणवोच्चारणेन सह क्रियमाणः प्राणायामः सगर्भः।