ॐ गुरुपरमात्मने नमः

- ४६४-५३८ सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्
- ४६९-४७५ समाध्यष्टाङ्गनिरूपणम्


आवर्तः ४७२ – आसनम्

सुखेनैव भवेद्यस्मिन्नजस्रं ब्रह्मचिन्तनम्। आसनं तद्विजानीयान्नेतरत्सुखनाशनम्॥ न केवलं कम्बलादिकम्।

अनन्ता ह्यासनभेदाः। तत्र (१) स्वस्तिकम्, (२) गोमुखम्, (३) वीरम्, (४) कूर्मम्, (५) पद्मम्, (६) कुक्कुटम्, (७) उत्तानम्, (८) कूर्मकम्, (९) धानुष्कम्, (१०) मत्स्यम्, (११) पश्चिमतानम्, (१२) मयूरम्, (१३) शवम्, (१४) सिंहम्, (१५) भद्रम्, (१६) सिद्धमिति प्रक्रम्य चतुरशीति (८४) आसनानि योगग्रन्थेषु निरूपितानि। तत्रैव तानि तल्लक्षणान्यपि विस्तरशो ज्ञेयानि। अत्र तु ग्रन्थविस्तरभयात्तेषां वेदान्तेऽत्यन्तोपयोगाभावाच्च न लिख्यन्ते। तेषु सिंहं भद्रं पद्मं सिद्धमिति चत्वारि मुख्यान्यासनानि। तत्रापि सिद्धासनमेवात्यन्तसाधनम्। तल्लक्षणञ्चैकत्रोक्तम् –

योनिस्थानकमङ्घ्रिमूलघटितं कृत्वा दृढं विन्यसेत्
मेढ्रे पादमथैकमेव हृदये कृत्वा हनुं सुस्थिरम्।
स्थास्नुः संयमितेन्द्रियोऽचलदृशा पश्येद्भ्रुवोरन्तरं
ह्येतन्मोक्षकपाटभेदजनकं सिद्धासनं प्रोच्यते॥ इति।

गुदावृषणयोर्मध्ये वामपादं नियोजयेत्।
दक्षपादाग्रभागञ्च वामजङ्घान्तरे न्यसेत्॥

हस्तयुग्मं न्यसेदङ्के सिद्धासनमितीरितम्।
कुण्डलीबोधकं शीघ्रं समाधेश्चोपकारकम्॥ इति।

तत्रैव मतान्तरम् –

मेढ्रादुपरि विन्यस्य सव्यगुल्फं तथोपरि।
गुल्फान्तरञ्च निक्षिप्य सिद्धासनमिदं भवेत्॥

एतत्सिद्धासनं प्राहुरन्ये वज्रासनं विदुः।
मुक्तासनं वदन्त्येके प्राहुर्गुप्तासनं परे॥ इति।

सम्पीड्य सीविनीं सूक्ष्मां गुल्फेनैव च सव्यतः।
सव्यं दक्षिणगुल्फेन मुक्तासनमितीरितम्॥ इति।

निपीड्य सीविनीं सूक्ष्मां दक्षिणेतरगुल्फतः।
वामं चान्येन गुल्फेन मुक्तासनमिदं भवेत्॥ इति च।

इदमेव सिद्धासनमत्यन्तं प्रधानम्। कानिचिदासनानि रोगनाशहेतूनि। कानिचित् प्राणायामादिसमाध्यङ्गसाधकानि। इदं तु सिद्धासनं समाधिकालोपयोगित्वादत्यन्तं प्रधानमुच्यते। इदमेव वज्रासनम्, मुक्तासनम्, गुप्तासनमित्यनेकधोच्यते।