ॐ गुरुपरमात्मने नमः

- ४६४-५३८ सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्
- ४६९-४७५ समाध्यष्टाङ्गनिरूपणम्


आवर्तः ४७१ – नियमः

(१) शौचम्, (२) सन्तोषः, (३) तपः, (४) स्वाध्यायः, (५) ईश्वरप्रणिधानमिति पञ्चविधो नियमः। ज्ञानसमुद्राख्ये ग्रन्थे दशविधो यमः, दशविधो नियमश्चोक्तः। सा च पौराणिकी रीतिः। वेदान्तसंप्रदायरीत्या तु प्रत्येकं तयोः पञ्च पञ्चैव भेदाः।

सजातीयप्रवाहश्च विजातीयतिरस्कृतिः। नियमो हि परानन्दो नियमात्क्रियते बुधैः॥ न केवलं शौचादिः।