आवर्तः ४८१ – कषायः
रागादयो दोषाः कषाया इत्युच्यन्ते। ते च बाह्याभ्यन्तरभेदेन द्विप्रकारा भवन्ति । तत्र (१) स्त्रीपुत्रधनादिरूपा विषया वार्तमानिकाः, बाह्या उच्यन्ते। (२) त एव भूता भाविनो वा चिन्तामुपारूढा मनोराज्यमात्रसिद्धा आन्तराः। त एते द्विविधा अपि रागादयः समाधिप्रवृत्ते योगिनि न संभवन्ति।
अन्तःकरणस्य पञ्च भूमयः – (१) क्षेपः, (२) मूढता, (३) विक्षेपः, (४) एकाग्रता, (५) निरोधभूमिका चेति चित्तस्य पञ्च भूमयः सन्ति।
(१) *१ *२ *३ लोकवासनादेहवासनाशास्त्रवासनादिरूपा रजोगुणपरिणामात्मिका दृढतरानेकानात्मवासनाः क्षेपा इत्युच्यन्ते।
*१. मैव निन्दतु लोको माम्। सर्वेऽपि मां स्तुवन्तु इत्याग्रहयुक्तो दृढतरः संस्कारो लोकवासना इत्युच्यते। वा
*२. स्थूलसूक्ष्मदेहनिष्ठरोगात्मकपापफलानि मलानि मणिमन्त्रौषधादिना तीर्थयात्रादिपुण्यकर्मणा वा निःशेषं निवर्तयामि, इति वा देहेऽस्मिन् पुष्टिसौन्दर्यादिरूपं । पुण्याद्यतिशयफलं सम्पादयामीति वा दृढतरः संस्कारो देहवासना इत्युच्यते।
*३. सकलशास्त्राणामध्ययनं पठनं वा अर्थावधारणं तदनुष्ठानं वा करोमीति दृढतरः संस्कारः शास्त्रवासना इत्युच्यते।
(२) निद्रालस्यप्रमादादिस्तमोगुणपरिणामोऽन्तःकरणस्य मूढता इत्युच्यते।
(३) ध्याने प्रवृत्तस्य चित्तस्य कदाचिद्वाह्यप्रवृत्तिः विक्षेप इति कथ्यते।
(४) अन्तःकरणस्यातीतपरिणामवर्तमानपरिणामयोः समानाकारतापत्तिः एकाग्रता इत्युच्यते। अस्यायमर्थः – समाधिकाले योगिनोऽन्तः करणे एकाग्रता जायते। सा चैकाग्रता न वृत्त्यभावरूपा। समाधिकालीनान्तःकरणपरिणामविशेषाः सर्वेऽपि ब्रह्मैव विषयीकुर्वन्ति। तत्रान्तःकरणस्यातीतपरिणामवर्तमानपरिणामयोः केवलब्रह्माकारतापत्त्या समानाकारता जायते।
(५) अस्या एकाग्रतायाः प्रवाहवृद्धिरेव निरोध इत्युच्यते।
इमाश्च भूमयः पञ्चापि अन्तःकरणस्यैव अवस्थाविशेषाः। पञ्चभूमिकाविशिष्टस्यान्तःकरणस्यैव क्रमात् क्षिप्तम्, मूढम्, विक्षिप्तम्, एकाग्रम्, निरुद्धमिति नाम। तत्र क्षिप्तमूढान्तःकरणयोर्नास्ति समाध्यधिकारः। विक्षिप्तान्तःकरणस्य त्वधिकारोऽस्ति। एकाग्रनिरुद्धान्तःकरणयोः संभवः समाधिकाले। एतत्सर्वं योगशास्त्रे विस्तरतः कथ्यते।
अत्राक्षेपः – ननु रागादिदोषदूषितमन्तः करणं क्षिप्तमेव वर्तते। क्षिप्तान्तःकरणस्य च योगेऽधिकार एव नास्तीत्युक्तम्। तत्कथं रागादिदोषरूपः कषायः *१ समाधिविघ्नरूप इत्युच्यते इति चेत् उच्यते। बाह्यान्तर्भावेन *२ विद्यमाना रागादयः क्षिप्तान्तःकरण एव जायन्ते। तस्य चान्तःकरणस्याधिकारो नास्ति योगे।
*१. अयमत्राशयः। यस्य हि राजगृहप्रवेशेऽधिकारोऽस्ति तं द्वारपालः कदाचिन्निरुणद्धीति प्रसक्तस्य प्रतिषेधो युज्यते। यस्य पुनस्तत्र अधिकार एव नास्ति तस्य कथं निरोधप्रसक्तिः। एवं क्षिप्तान्तःकरणस्य समाधावधिकारप्रसक्तौ तस्य रागादिदोषरूपः कषायो विघ्नकरः स्यात्। तस्य तु समाध्यधिकार एव नास्ति। तत्कथं रागादिदोषरूपः कषायः समाधिविघ्नकृदिति।
*२. रागादयोऽत्र त्रिप्रकारा भवन्तीति कापि प्रक्रिया। सा चैवम् – (१) बाह्याः, (२) आन्तराः, (३) वासनारूपाश्चेति। (१) बाह्यप्रवृत्तिहेतुभूता रागादयो बाह्या उद्युक्ता इति चोच्यन्ते। (२) मनोराज्यात्मका रागादय आन्तरा आशात्मका इत्युच्यन्ते। (३) जन्मान्तरेषु प्रागनुभूतविषयरागादिसंस्कारा वासनारूपा इत्युच्यन्ते। वासनाश्च उद्बुद्धानुद्बुद्धभेदेन द्विविधाः। तन्निरूपणं च विद्यारण्यस्वामिकृते जीवन्मुक्तिविवेके द्रष्टव्यम्।
तथापि अनेकजन्मसु प्रागनुभूतबाह्याभ्यन्तरविषयकरागद्वेषादयो ये तेषां सूक्ष्मः संस्कारो विक्षिप्ताद्यन्तः करणेऽपि संभवेत्। तस्मात्, रागद्वेषादीनां न कषाय इति नाम। किन्तु *३ रागद्वेषादिसंस्कारस्यैव कषाय इति नाम।
*३. अत्रायं दृष्टान्तः – राजदर्शनाय स्वगृहात्प्रस्थितमाद्यं राजद्वारमागतं जागरूको द्वारपालो यथा निवारयति। तथा सकलसंसारविषयेभ्यो दुःखभयान्निर्विकल्पसमाधिसुखानुभवायान्तर्मुखीभूतं योगिनो मनः समाध्यानन्दलाभात्प्रागन्तराले उद्भूतरागादिसंस्काररूपः कषायो निवारयति। तस्मात् स एव समाधिविघ्न इत्युच्यते।
स च संस्कारो यावदन्तःकरणस्यावस्थितिः, तावदनुवर्तेतैव। यद्यपि समाध्यवस्थायामप्यन्तःकरणं वर्तत एव। तथापि रागद्वेषादीनामुद्भूतः संस्कार एव समाधिविरोधी। न त्वनुद्भूतः। उद्भूतः = बहिः प्रकटीकृतः। अनुद्भूतः = अन्तःस्थितः। समाधिप्रवृत्तेन योगिना रागद्वेषादिसंस्कारोद्भवे स दोषदृष्ट्या दृढतरवैराग्यबलाच्चापनेयः।
विक्षेपकषाययोरयं भेदः – बाह्यविषयाकारवृत्तेर्विक्षेप इति नाम। योगिनः प्रयत्नवशादन्तर्मुखीभूतायामपि वृत्तौ रागादिदोषाणामुद्भूतसंस्कारात् सा प्रतिबद्धा सती ब्रह्म न विषयीकरोति स एव संस्कारः कषाय इत्युच्यते। विषयेषु दोषदर्शनपूर्वकं योगिना प्रयत्नातिशयवशात् कषायविघ्नो निवारणीयः।