आवर्तः ४८२ – रसास्वादः
योगिनो ब्रह्मानन्दानुभवो जायते। विक्षेपरूपदुःखनिवृत्तिश्च अनुभूयते। क्वचिद्दुःखनिवृत्त्याप्यानन्दो जायते। यथा भारवाहिपुरुषस्य भारापनयादानन्दो जायते। न हि तदानन्दे विषयान्तरं कारणम्। भारप्रयुक्तदुःखनिवृत्त्या च ‘सुखं मेऽभूत्’ इति वक्ति। तथा योगिनोऽपि समाधौ विक्षेपजन्यदुःखनिवृत्त्यापि आनन्दो जायेत, सोऽनुभवो रसास्वाद इत्युच्यते। अस्मिन्नेवानन्दे यदि तृप्तः स्याद्योगी तदा सर्वोपाधिशून्यब्रह्मानन्दाकारा वृत्तिर्न स्यात्तस्य। ततस्तदधीनानन्दानुभवोऽपि न भवेत्। तस्मात् दुःखनिवृत्तिजन्यानन्दानुभवरूपो रसास्वादोऽपि समाधौ विघ्नः स्यात्।
वाञ्छितार्थलाभेऽपि तद्विरोधिनिवृत्त्यानन्दो जायत इत्यत्र दृष्टान्तान्तरमुच्यते। भूमिस्थो निधिरत्यन्तं क्रूरेण विषधरेण कृष्णसर्पेण रक्ष्यते। तत्प्राप्तेः प्राक्तत्प्राप्तिप्रतिबन्धस्य सर्पस्य निवृत्त्याप्यानन्दो जायते। सर्पनिवृत्तिजन्येनानन्देनैवालम्बुद्धिः सन्निधिलाभोद्यमं यदि त्यजति, तदा निधिलाभजन्यपरमानन्दप्राप्तिर्न स्यात्तस्य। तद्वदत्राद्वैतब्रह्मरूपो महानिधिर्देहाद्यनात्मपदार्थप्रतीतिरूपेण विक्षेपसर्पेणावृतो वर्तते। विक्षेपरूपसर्पनिवृत्त्यापि अवान्तरानन्दरूपो रसास्वादो भवति। अयमेव च निधिरूपेऽद्वैतब्रह्मप्राप्तिजन्यपरमानन्दलाभे विघ्न इत्युच्यते।
अथवा – सविकल्पसमाध्यनुष्ठानोत्तरं निर्विकल्पसमाधिः प्रसिद्ध्यति। सविकल्पसमाधौ त्रिपुटी प्रतीयते। अत एव सोपाधिकोऽयं समाधिरिति वक्ष्यते। निर्विकल्पसमाधौ तु त्रिपुट्यभावादेव निरुपाधिकानन्दो जायते। इत्थं सविकल्पसमाध्यारम्भदशायां सोपाधिकः सविकल्पसमाध्यानन्दोऽपरिहार्यतयानुभूयते। स एव रसास्वाद इत्युच्यते। तस्माद्विक्षेपनिवृत्तिजन्यानन्दानुभवो वा, सविकल्पसमाध्यानन्दानुभवो वा रसास्वाद इत्युच्यते। स द्विविधोऽपि रसास्वादो निर्विकल्पसमाधिजपरमानन्दानुभवविरोधित्वाद्विघ्नो भवति। अतः स परित्याज्य एव। एवं निर्विकल्पसमाधौ संभवत् *१ विघ्नचतुष्टयं सावधानता परिहृत्य यः समाधिजं परमानन्दमनुभवति स एव जीवन्मुक्तः।
*१. (१) अखण्डचित्स्वरूपावगाहिचित्तवृत्तेर्निद्रारूपो लयो विघ्नः प्रथमः। (२) तस्या विषयान्तरावलम्बनरूपो विक्षेपो विघ्नो द्वितीयः। (३) लयविक्षेपयोरभावेऽपि स्तब्धतारूपः कषायो विघ्नस्तृतीयः। (४) दुःखनिवृत्तिरूपानन्देन सविकल्पसमाध्यानन्देन वा तृप्तचित्तवृत्तिरूपो रसास्वादो विघ्नश्चतुर्थः।