-
४६४-५३८
सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्
आवर्तः ४८३ – ज्ञानिनो बाह्यप्रवृत्तिर्न संभवति इत्याक्षेपः
ज्ञानिनश्चित्तं निरालम्बनतया न तिष्ठति। प्रारब्धबलात्समाधेरुत्थितस्यापि समाध्यनुभूतपरमानन्दस्मृतिः स्यादेव। तस्मादुत्थानसमयेऽपि ज्ञानिनश्चित्तं न निरालम्बं भवति। भोजनादिप्रवृत्तिरपि ज्ञानिनः केवलं प्रारब्धकर्मजन्यैव। तथापि भोजनादिव्यवहारेषु दुःखमस्तीति ज्ञात्वैव ज्ञानी प्रवर्तते। भोजनादिप्रवृत्तिरपि यस्य समाधिसुषुप्तिविरोधित्वेन शरीरनिर्वाहकतया प्रतीता खेदरूपैव भवति। तस्य न तत्राधिका प्रवृत्तिर्जायते। एवमनेके आचार्या इममेव पक्षं स्वीकुर्वन्ति। जीवन्मुक्तानन्दोऽपि बाह्यप्रवृत्तौ न जायते। किन्तु निवृत्तावेव जायते। अतो जीवन्मुक्तिसुखार्थिनो ज्ञानिनो बाह्यप्रवृत्तिरेव न स्यात्।