आवर्तः ४६५ —४८३ आवर्तेषु कृतशङ्कायाः समाधानम्
ज्ञानिनो निरङ्कुशप्रवृत्तेः प्रारब्धवशाद्व्यवहारः सिद्ध्यतीति तद्व्यवहारनिवृत्तौ नियमः कर्तव्य इति शङ्कासमाधानम्। ज्ञानिनो निवृत्तावपि नियमसद्भावोक्तिरसङ्गता। निवृत्तौ वा प्रवृत्तौ वा वेदस्य आज्ञारूपो विधिर्न ज्ञानिनोऽस्ति। तद्व्यवहारे नियमाभावाज्ज्ञानी *२ निरङ्कुशः। तद्व्यवहारः सर्वोऽपि *३ प्रारब्धायत्त एव।
*२. विषयानन्दः सातिशयानन्दत्वात् साङ्कुशः। ज्ञानिन आनन्दस्तु ब्रह्मानन्दाभिन्नत्वान्निरङ्कुशः।
*३. रज्जुज्ञानेन सर्पभ्रान्तिर्यथा बाध्यते तथाधिष्ठानब्रह्मज्ञानेनाहङ्कारादिजगद्भ्रान्तिः बाध्यते। तथापि, यथा सर्पज्ञानजन्यभयकम्पादिः कालान्तरे निवर्तते, तथा प्रारब्धकर्मजन्यभोगोऽपि प्रारब्धनाशानन्तरमेव निवर्तते। मन्दान्धकारस्था रज्जुः पुनरपि सर्पात्मना यथा प्रतीयते, तथा भोगकाले मनुष्योऽहमित्यादिप्रतीतिर्ज्ञानिनोऽपि कदाचिज्जा। उपादानभूताज्ञाननिवृत्त्यनन्तरमपि प्रपञ्चप्रतीतिर्ज्ञानिनो मुक्तेषुन्यायेन भवत्येव। यथा व्याघ्रबुद्ध्योत्सृष्टो बाणः पश्चाद्गोमतौ उत्पन्नायामपि न स्वयं प्रशान्तवेगो भवति। गच्छन्नेव वर्तते। अन्ते च वेगक्षयादेव प्रशाम्यति। एवं हस्तविसृष्टबाणस्थानीयं प्रारब्धं कर्मापि फलदानाय प्रवृत्तं फलक्षयादेव प्रशाम्यति। नान्यतः। अतस्तावत्कालं तत्प्रयुक्ता प्रपञ्चप्रतीतिरपि उत्पन्नायामपि ब्रह्ममतौ अनुवर्तेतैव।
(१) यस्य ज्ञानिनः प्रारब्धं भिक्षाभोजनादिफलमात्र हेतुस्तस्य भिक्षाभोजनादिमात्रे प्रवृत्तिर्जायते। (२) यस्य तु प्रारब्धमितोऽप्यधिकभोगहेतुः तस्याधिकेऽपि व्यापारे प्रवृत्तिर्भवति।
अत्राक्षेपः – ननु यस्य प्रारब्धं भिक्षाभोजनमात्रहेतुस्तस्यैव ज्ञानं जायेत। यस्य पुनः प्रारब्धमधिकव्यापारहेतुर्नैव तस्य ज्ञानं जायेत। तस्माद्भिक्षाभोजनादिव्यापारादधिकव्यापारो न ज्ञानिनो युज्यते। यस्याधिकव्यापारे प्रवृत्तिरस्ति, स नैव स्याज्ज्ञानीति।
समाधानम् – नेयं संभवति शङ्का। यतः श्रीरामकृष्णयाज्ञवल्क्यजनकादयो ज्ञानिन उच्यन्ते। तेषु च सभायां विजयेन धनसङ्ग्रहव्यवहारे याज्ञवल्क्यस्य, तथा राज्यपरिपालनादिव्यापारे जनकस्य च प्रवृत्तिः कथिता। अपि च वासिष्ठादिग्रन्थेष्वनेकेषां ज्ञानिनां व्यवहारो नानाप्रकारः कथ्यते। तस्माज्ज्ञानिनः प्रवृत्तौ वा निवृत्तौ वा नैवास्ति नियमः।
यद्यपि याज्ञवल्क्यः सभायां जयं लब्ध्वा पश्चात् *१ विद्वत्सन्न्यासरूपां निवृत्तिं दधे। प्रवृत्तौ च नानाप्रकारा दु:खहेतुभूता दोषाः कथिताः। तथापि याज्ञवल्क्यस्य विद्वत्सन्यासात्प्राक् ज्ञानाभावोक्तिर्न युज्यते। ज्ञानं प्रागप्यासीदेव। जीवन्मुक्तिसुखं परं न तेन प्राप्तम्। तस्माज्जीवन्मुक्तिसुखावाप्तये सर्वस्वसङ्ग्रहपरित्यागमकरोत्।
*१. विधिना सर्वकर्मासङ्गपरित्यागी सन्न्यासी। स च हंसपरमहंसभेदाद्द्विविधः। तीव्रवैराग्ययुक्तो हंससन्यासः कुटीचकबहूदकभेदेन द्विप्रकारः। तीर्थाटनाशक्तः कुटीचकः, तीर्थाटनसमर्थो बहूदकः। परमहंससन्यासोऽपि विविदिषासन्न्यासो विद्वत्सन्न्यासश्चेति द्विप्रकारः। प्राग्ज्ञानोत्पत्तेर्विषयदोषदृष्ट्या तीव्रतरवैराग्येण जिज्ञासुना क्रियमाणः सन्यासो विविदिषासन्यासः। ज्ञानानन्तरं दोषदृष्ट्या मिथ्यात्वादिदृढनिश्चयेन तीव्रतमवैराग्येण च विदुषा क्रियमाणः सन्यासो विद्वत्सन्न्यासः। विद्वत्सन्न्यासादिलक्षणं तु नारदपरिव्राजकोपनिषत्सूतसंहितादौ द्रष्टव्यम्।
(१) याज्ञवल्क्यस्य प्रारब्धं किञ्चित्कालमधिकभोगहेतुरासीत्, पश्चात्स्वल्पभोगहेतुरासीत्। तस्मात् प्रथमं याज्ञवल्क्यस्य विनैवारुचिं भोगाधिक्यम्, पश्चादत्यन्तारुच्या सर्वभोगत्यागश्चाभूत्।
(२) जनकस्य प्रारब्धं तु आमरणं राज्यपरिपालनादिरूपविशेषभोगहेतुरासीत्। तस्मात् तस्य भोगत्यागो नाभूत्कदाचिदपि। नाप्यरुचिर्भोगेषु सञ्जाता।
(३) वामदेवादिप्रारब्धं स्वल्पभोगहेतुरासीत्। अतस्तेषां सदा रुच्युत्पत्तेर्भोगेषु प्रवृत्तिरेव नाभूत्।
(४) शिखिध्वजस्य ज्ञानानन्तरं राज्यादिष्वधिका प्रवृत्तिः कथ्यते वासिष्ठे। इत्थं ज्ञानिनां नानाप्रकारा विलक्षणव्यवहाराः कथिताः। सर्वेषामपि *१ तेषां सममेव ज्ञानम्। फलमपि मोक्षरूपं समानमेव। व्यवहारास्तु *२ प्रारब्धभेदान्नानाप्रकाराः। व्यवहारलोपाज्जीवन्मुक्तिसुखमधिक्रियेत। व्यवहाराधिक्ये जीवन्मुक्तिसुखं न्यूनतां व्रजेत्।
*१. ज्ञानं सर्वेषां सममित्यात्रायं श्लोकः प्रसिद्धतया कथ्यते –
कृष्णो भोगी शुकस्त्यागी नृपौ जनकराघवौ।
वसिष्ठः कर्मकर्ता च त एते ज्ञानिनः समाः॥ इति।
इत्थमेतेषां प्रारब्धभेदाद्व्यवहारभेदेऽपि ज्ञानं सर्वेषां समानमेवेति साम्प्रदायिकश्लोकार्थः। ननु तत्त्वबोधतामपि रागादिमत्त्वेन वैषम्योपलम्भाज्ज्ञानस्यापि मुक्तिहेतुत्वं निश्चेतुं न शक्यमित्याशङ्क्य – रागादेर्व्याध्यादिवदारब्धकर्मफलत्वान्मुक्तिप्रतिबन्धकत्वमसिद्धम्। अतो न शास्त्रार्थे विप्रतिपत्तव्यमित्याहुर्विद्यारण्यस्वामिनः –
प्रारब्धकर्मनानात्वाद्बुद्धानामन्यथान्यथा।
वर्तनं तेन शास्त्रार्थे भ्रमितव्यं न पण्डितैः॥ चि. दी. २८७॥ इति।
कथं तर्हि प्रतिपत्तव्यमित्याहुः –
स्वस्वकर्मानुसारेण वर्तन्तां ते यथा तथा।
अविशिष्टः सर्वबोधः समा मुक्तिरिति स्थितिः॥ २८८॥ इति।
*२. ‘अहं ब्रह्मास्मि’ इति ज्ञानोदयकाल एवाविद्यात्मकोपादानकारणं विनश्यति। तत्कार्यभूता जगच्चिदाभासादयोऽपि बाध्यन्त एव। तथापि प्रारब्धकर्मरूपं निमित्तं यावदवतिष्ठते, तावज्ज्ञानबाधिता अपि देहजगच्चिदाभासादयोऽनुवर्तमाना एव प्रतीयेरन्। प्रारब्धावसाने च न प्रतीयेरन्। इयमेव विदेहमुक्तिः। उत्तममध्यमकनिष्ठाधमतराधमतमभेदेन पञ्चविधं प्रारब्धम्। (१) सर्वदाजन्ममरणं वैराग्यहेतुभूतं निवृत्तिप्रधानं प्रारब्धमुत्तमम्। यथा शुकवामदेवसनकादिप्रारब्धम्। (२) आदौ प्रवृत्तिहेतुभूतमपि पश्चान्निवृत्तिहेतुभूतं प्रारब्धं मध्यमम्। यथा याज्ञवल्क्यादिप्रारब्धम्। (३) सदा प्रवृत्तिहेतुभूतं प्रारब्धं कनिष्ठम्। यथा जनकादिप्रारब्धम्। (४) आदौ निवृत्तिहेतुभूतं सत् पश्चात्प्रवृत्तिहेतुभूतं प्रारब्धमधमतरम्। यथा शिखिध्वजालर्कहूगणप्रियव्रतादिप्रारब्धम्। (५) कामचारकामवादकामभक्षादिहेतुभूतं प्रारब्धम् अधमतमम्। यथा दत्तात्रेयादिप्रारब्धम्।