ॐ गुरुपरमात्मने नमः

- ४६४-५३८ सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्


आवर्तः ४८५ – ज्ञानिनो विदेहमोक्षत्यागः परलोकेच्छा च न जायते

अत्र केचनाक्षिपन्ति – जीवन्मुक्तिसुखं त्यक्त्वा तुच्छविषयभोगे प्रवृत्तो विदेहमोक्षमपि त्यक्त्वा वैकुण्ठादिलोकेच्छया तत्तल्लोकमपि प्राप्यनुयादिति।

नैवायं संभवत्याक्षेपः – (१) जीवन्मुक्तिसुखत्यागो भोगप्रवृत्तिश्च ज्ञानिनः प्रारब्धबलात् संभवति। (२) विदेहमुक्तित्यागः परलोकगमनं च तस्य नैव संभवति। यतः (१) ज्ञानिनः प्राणा बहिर्न गच्छन्ति। “न तस्य प्राणा उत्क्रामन्ति” इत्यादिश्रुतेः। तस्मान्न परलोकगमनं ज्ञानिनः संभवति। (२) विदेहमोक्षत्यागश्च न संभवति। यतो ज्ञानेन निःशेषाज्ञाननिवृत्तौ प्रारब्धभोगानन्तरं स्थूलसूक्ष्मशरीराकारपरिणतस्य मूलाज्ञानस्य स्वाधिष्ठानचैतन्ये निःशेषप्रविलय एव विदेहमोक्ष इति कथ्यते। स चाज्ञाननाशेऽवश्यं भवति।

मूलाज्ञानेऽवशिष्टे, निवृत्तस्याज्ञानस्य पुनरापाते वा, विदेहमुक्तिर्न सिच्येत्। मूलाज्ञानविरोधिज्ञानोदयसमकालमेव चाज्ञानं नावशिष्यते। प्रमाणतो नष्टमज्ञानमपि न पुनरुत्पद्यते, ततो न विदेहमोक्षाभावः संभवति। विदेहमोक्षत्यागो परलोकगमने च ज्ञानिन इच्छा न जायेत। यतो ज्ञानिन इच्छापि तावत् केवलं प्रारब्धाधीनैव जायते। यावतीं सामग्रीं विना ज्ञानिनः प्रारब्धभोगो न जायेत, तावतीमेव सामग्रीं प्रारब्धं जनयति। न हीच्छां विना भोगो जायेत। तस्माज्ज्ञानिन इच्छापि प्रारब्धफलभूतैव। लोकान्तरे वा, इहलोके वा शरीरान्तरसंबन्धोऽपि ज्ञानिनः प्रारब्धाधीनो न जायते इत्येतत् प्रागेवास्मिन् तरङ्गे प्रतिपादितम्। तस्माज्ज्ञानिनः प्रारब्धबलादपि विदेहमोक्षत्यागे वा परलोकगमने वा *१ नैवेच्छा संभवति।

*१. दृढतरज्ञानिनो मोक्षेच्छाभावेऽपि मुक्तिर्जायत इत्यत्र भाष्यकारवचनम् –

देहात्मज्ञानवज्ज्ञानं देहात्मज्ञानबाधकम्।
आत्मन्येव भवेद्यस्य स नेच्छन्नपि मुच्यते॥ इति।

स्वप्नात्प्रबुद्धस्य यथा स्वप्नभ्रान्तिनिवृत्तिपरित्यागे स्वप्नदृष्टपरलोकगमने च नैवेच्छा जायते। तथा ज्ञानिनोऽपि बन्धभ्रान्तिनिवृत्तिरूपविदेहमोक्षपरित्यागे स्वर्गादिपरलोकगमने च नैवेच्छा संभवति।