ॐ गुरुपरमात्मने नमः

- ४६४-५३८ सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्


आवर्तः ४८६ – ज्ञानिनो मन्दप्रारब्धवशाज्जीवन्मुक्तिसुखविरुद्धा प्रवृत्तिः

जीवन्मुक्तिसुखस्य विरोधिनी वर्तमानशरीरस्थाधिकभोगेच्छा भिक्षाभोजनादिवत् जनकादीनां संभवति। अत्रायमभिप्रायः – ज्ञानिनो बाह्यप्रवृत्तिर्न जीवन्मुक्तिविरोधिनी। किन्तु जीवन्मुक्तिविलक्षणसुखविरोधिनी। आत्मा हि नित्यमुक्तः। भ्रान्त्याविद्योत्थया तस्मिन्बन्धः प्रतीयते। यदा पुनर्ज्ञानं जायते तदैवाविद्याजन्यबन्धभ्रमोऽपि निवर्तते। ज्ञानोत्पत्त्यनन्तरमपि न बन्धभ्रमो जायते।

बन्धभ्रान्त्यभाव एव सशरीरस्य ज्ञानिनो जीवन्मुक्तिरित्युच्यते। देहादिप्रवृत्तिनिवृत्त्यादौ चिदात्मनि बन्धभ्रान्तिर्न ज्ञानिनः संभवति। तस्माद्वाह्यप्रवृत्त्यापि जीवन्मुक्तिर्न निवर्तते। तथापि बाह्यप्रवृत्तौ जीवन्मुक्ते विलक्षणं सुखं न जायते। एकाग्रतापन्नान्तःकरणपरिणामवशादेव तत्सुखं जायते। स चैकाग्रतापरिणामो बाह्यप्रवृत्त्या प्रतिबध्यते। इत्थं प्रारब्धभेदवशाज्ज्ञानिनो व्यवहारो नानाप्रकारः। परन्तु यस्य प्रारब्धमधिकप्रवृत्तिहेतुः, तस्य *१ तन्मन्दप्रारब्धमित्युच्यते। यतो ह्यधिका प्रवृत्तिरेकाग्रताविरोधिनी। अन्तरेण चैकाग्र्यं निरुपाधिकानन्दो न प्रतीयेत। एतच्च समाधिनिरूपणप्रकरणे *२ कथितम्।

*१. सर्वस्वातन्त्र्येण भुवं पालयतो राज्ञो रोगकारणीभूतं प्रारब्धं कर्म प्रतिबन्धकत्वान्मन्द इत्युच्यते यथा तथाविद्यातत्कार्यभूतशत्रून् संहृत्य ब्रह्मीभूतस्य ज्ञानिनोऽधिकप्रवृत्तिहेतुभूतं प्रारब्धमेकाग्रताया विरोधित्वान्मन्दमित्युच्यते। मन्दमित्यस्य पदस्य निकृष्टमित्यत्रार्थः।

*२. षष्ठे तरङ्ग उक्तम्।