-
४६४-५३८
सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्
- ४६४-५३८ ज्ञानिनो व्यवहारोऽनियतः
- ४६४-५३८ ज्ञानिनो व्यवहारोऽनियतः
आवर्तः ४८७ – ज्ञानिनो व्यवहारोऽनियतः
(१) यदुक्तं ज्ञानिनः सकलानात्मपदार्थेषु मिथ्याबुद्धिसद्भावात् न रागः संभवति। अतः प्रवृत्तिरेव न स्यादिति। नैतद्युज्यते। कुतः, यथा देहे मिथ्यात्वबुद्धौ सत्यामपि ज्ञानिनो देहानुकूलभिक्षादौ केवलं प्रारब्धबलात् प्रवृत्तिर्जायते, तथा यस्य ज्ञानिनोऽधिकभोगार्थं प्रारब्धं वर्तते तस्याधिकापि प्रवृत्तिर्जायेतैव।
यथा च ऐन्दजालिकमायां मिथ्येति जानन्तोऽपि तद्दिदृक्षया सर्वे जनाः प्रवर्तन्ते। तथा सर्वेष्वपि पदार्थेषु मिथ्यात्वबुद्धौ सत्यामपि तद्भोगार्थं ज्ञानिनः प्रवर्तन्ते।