- ४८७-४८८ ज्ञानिनो व्यवहारोऽनियतः
आवर्तः ४८८ – अत्राक्षेपसमाधाने
यस्य पुनः यस्मिन् पदार्थे दोषदृष्टिरस्ति तत्र तस्य राग एव न भवेत्। तस्मात्प्रवृत्तिरपि तस्य तदधीना न स्यादिति चेत्, तत्रेदं समाधानम् – यस्यापथ्यस्य सेवनेनान्वयव्यतिरेकाभ्यां रोगाधिक्यं तत्र दोषनिश्चये सत्यपि यथा प्रारब्धवशाद्रोगिणो जानतोऽपि प्रवृत्तिर्जायते, *३ प्रारब्धबलात् तथा ज्ञानिनोऽपि सर्वव्यवहारेषु प्रवृत्तिः सत्यामपि दोषदृष्टौ जायत एव।
*३. अत्रायं विवेकः (१) मन्दम्, (२) तीव्रम्, (३) तीव्रतरमिति प्रारब्धं कर्म त्रिविधम्।
(१) यस्योपादेयफलं भिक्षान्नवदधिकप्रयत्नलभ्यं भवति यस्य चाकस्मिकहेयफलं निवर्तनीयरोगवदल्पप्रयत्नेन निवर्तते तत्प्रारब्धं मन्दप्रारब्धमित्युच्यते।
(२) यस्योपादेयफलं मृष्टान्नवदल्पप्रयत्नलभ्यम्। यस्य चाकस्मिकहेयफलं कष्टसाध्य। फलवदधिकप्रयत्ननिवर्त्यं भवति तादृशं प्रारब्धं तीव्रप्रारब्धमित्युच्यते।
(३) यस्य चोपादेयफलं स्वस्थानोपनतान्नवत् विनैव प्रयत्नं स्वत एव लभ्यते, यस्य बलात्कारलब्धहेयफलं महिषव्रणवदामरणं प्रयत्नतोऽपि न निवर्तते। तत्प्रारब्धं तीव्रतरमित्युच्यते। इत्थं मन्दतीव्रप्रारब्धयोः फलं प्रयत्नाधीनम्। तत्प्रयत्नहेतुः शुभाशुभवासनाः। तद्वासनानिवृत्तिः पुरुषप्रयत्नसाध्या। तत्रापि –
(३.१) शुभवासनानिवृत्तिर्दुःसङ्गादिप्रयत्नाज्जायते।
(३.२) अशुभवासनानिवृत्तिः सत्सङ्गविवेकज्ञानवैराग्यादिना जायते।
यस्माज्ज्ञानी सत्सङ्गविवेकज्ञानवैराग्यादिसम्पन्नो भवति, तस्मात् तच्चित्तेऽशुभवासनाप्रवृत्तिहेतुभूता काप्यशुभवासना नैवास्ति। किन्तु शुभप्रवृत्तिहेतुभूता शुभवासनैवास्ते। ततः तस्य ज्ञानिनो मन्दतीव्ररूपप्रारब्धफलभूतनिषिद्धाचरणे विधिनिषेधावगतगुणदोषबुच्यभावात् शुभवासनात्मकस्वभाववशादुन्मत्तवैष्णववत् ब्राह्मणादिशिशुवच्च प्रवृत्तिरेव न संभवेत्। किन्तु निवृत्तिरेव स्यात्।
कस्यचिद्रोगिणोऽन्वयव्यतिरेकाभ्यां दोषनिश्चये सत्यपि अपथ्यसेवने या प्रवृत्तिर्जायते न सा प्रयत्नशीलस्यापि रोगिणो जायते। तथापि जिह्वाचापल्यवतः प्रयत्नहीनस्य रोगिणोऽपथ्यसेवने प्रवृत्तिर्जायते। प्रयत्नशीलस्यापि कस्यचिदपथ्यकरणे प्रवृत्तिर्जायते। तदेतत् तीव्रस्य प्रारब्धस्य फलम्। तदेवं दोषनिश्चयमिथ्यात्वनिश्चयरूपदृढविवेकवतो ज्ञानिनो मन्दस्य वा, तीव्रस्य वा, प्रारब्धकर्मणः फलभूता यथेष्टचेष्टारूपा निषिद्धप्रवृत्तिर्नैव संभवति।
प्रारब्धभक्ता यदाक्षिपन्ति – प्रारब्धफलं विशिष्टं त्यक्तुं न शक्यते। अतो व्यर्थः पुरुषप्रयत्न इति। तन्न युज्यते। तथाभ्युपगमे सर्वज्ञप्रणीतं वैद्यमन्त्रयोगशास्त्रादिकं सर्वं तन्निवृत्त्युपायप्रतिपादकं व्यर्थं स्यात्। दृष्टफलहेतुभूतोपायबोधकशास्त्रवैयर्थ्यकथनं च न विवेकिनां सङ्गच्छते। प्रारब्धं पुरुषप्रयत्नश्चेत्येतद्द्वयमत्यावश्यकमित्येव वासिष्ठाद्युत्तमग्रन्थानामभिप्रायः।
इत्थं ज्ञानिनो व्यवहारे न *१ नियमः अस्ति। अयं च पक्षः सविस्तरं *२ तृप्तिदीपे विद्यारण्यस्वामिभिः प्रतिपादितः। तस्मात्तत्त्वदृष्टेर्ज्ञानिनो व्यवहारोऽनियत एव। अत एव समाधिरूपनियमविधिं श्रुत्वा तत्त्वदृष्टिः परिजहास।
*१. अत्रायमभिप्रायः – स्वाधीने कार्ये नियमः संभवति। पराधीने तु कार्ये स न युज्यते। ज्ञानिनां शरीरव्यवहारश्च नानाप्रारब्धकर्माधीनो वर्तते। हस्तमुक्तेषुतुल्यप्रारब्धाधीनो ज्ञानिदेहव्यवहारो न नियतः। रागादिवासना निरुच्य स्वाधीनचित्ताः केचन ज्ञानिनो मन्दस्य वा तीव्रस्य वा प्रारब्धकर्मणः फलभूतं शरीरव्यवहारं नियमयन्ति। तीव्रतरप्रारब्धफलभूतं शरीरव्यवहारं नियन्तुं नैव प्रभवन्ति।
*२. विनापि प्रीतिं ज्ञानिनः प्रारब्धभोगो जायते। प्रारब्धं चेच्छानिच्छापरेच्छाभेदात् त्रिविधम्। तच्च श्रीविद्यारण्यकृते तृप्तिदीपे (१५३-१६२) पद्येषु सम्यगुपपादितम्।