ॐ गुरुपरमात्मने नमः

- ४६४-५३८ सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्


आवर्तः ४८९ – तत्त्वदृष्टेर्देशकालाद्यनपेक्षो देहपातः

इत्थं कञ्चित्कालं तत्र तत्र सञ्चारं कृत्वा सम्यग्ज्ञानवान् तत्त्वदृष्टिः प्रारब्धभोगं बुभुजे। ततस्तत्प्राणास्तत्रैव लिल्युः। प्रारब्धभोगानन्तरं ज्ञानिनां प्राणानां कुत्रापि गमनाभावात्, तत्त्वदृष्टेः प्राणोऽपि स्वोपादन एव लीनोऽभूदिति उक्तं भवति।

(१) ज्ञानिनां शरीरत्यागार्थं न कालविशेषादिनियमापेक्षास्ति। उत्तरायणे अथवा दक्षिणायने तेषां शरीरपातः संभवेत्। सर्वथाप्यसौ मुक्त एव।

(२) तथा, देशविशेषनियमापेक्षापि नास्ति। काश्यादिपुण्यदेशेषु वा, अत्यन्तमलिनदेशेषु वा ज्ञानिनां देहपातः संभवेत्। सर्वथाप्यसौ *१ मुक्त एव।

१. अत्रायं साम्प्रदायिकः श्लोकः –

काश्यां वा ज्ञानिनो देहश्चण्डालस्य गृहेऽपि वा।
ज्ञानक्षणे भ्रान्तिहानेर्ज्ञानी मुक्तो हि सर्वथा॥ इति।

(३) तथा, आसनविशेषनियमापेक्षापि नास्ति। भूमौ वा शवासने वा सिद्धासने वा स्थित्वा देहपातः संभवेत्। सर्वथाप्यसौ मुक्त एव।

(४) तथैव सावधानमना ब्रह्मध्यानेन रोगादिना व्याकुलान्तःकरणो हाहेति विलपनेन वा देहं त्यजेत्। सर्वथाप्यसौ मुक्त एव। यदैव ज्ञानिनो ज्ञानेनाज्ञानं निवर्तते, तदैव स ज्ञानी *२ मुक्तो भवति।

*२. अयमेवार्थः पञ्चदश्यां श्रीविद्यारण्यकृतौ भूतविवेके उक्तः –

नीरोग उपविष्टो वा रुग्णो वा विलुठन् भुवि।
मूर्च्छितो वा त्यजत्वेष प्राणान् भ्रान्तिर्न सर्वथा॥ १०६॥

दिने दिने स्वप्नसुप्त्योरधीते विस्मृतेऽप्ययम्।
परेद्युर्नानधीतः स्यात् तद्वद्विद्या न नश्यति॥ १०७॥

प्रमाणोत्पादिता विद्या प्रमाणं प्रबलं विना।
न नश्यति न वेदान्तात् प्रबलं मानमीक्ष्यते॥ १०८॥ इति।

एवं ज्ञानिनो विदेहमुक्तौ न देशकालासनादिनियमापेक्षास्ति। यथैव ज्ञानिनो देहपाते देशकालाद्यपेक्षा नास्ति, तथैव ज्ञानोत्पत्तिसाधने श्रवणादावपि देशकालाद्यपेक्षा नास्त्येव। उपासकस्य तु देशकालाद्यपेक्षा स्यादेव।