ॐ गुरुपरमात्मने नमः

- ४६४-५३८ सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्


आवर्तः ४९० – अत्राक्षेपसमाधाने

भीष्मादयो ज्ञानिनः स्मर्यन्ते। तत्र भीष्मस्तूत्तरायणं विना कुतः प्राणान्न जहौ इति चेत्। शृणु। भीष्मादयो ह्याधिकारिकाः पुरुषाः। ते च उपासकानामुपदेशार्थमेव देशकालविशेषप्रतीक्षां चक्रुः।

वसिष्ठभीष्मादीनामाधिकारिकपुरुषत्वात्तेषामनेकानि जन्मानि अभवन्। आधिकारिकपुरुषाणामेककल्पपर्यन्तं प्रारब्धमवतिष्ठते। अन्तरेण कल्पावासानं न तेषां विदेहमोक्षो भवति। कल्पान्तरालकाल एव तेषामनेकानि जन्मानीच्छावशाज्जायन्ते। तथापि आत्मस्वरूपे जन्ममरणादिवत्त्वभ्रान्तिर्न तेषां संभवति। तस्माज्जीवन्मुक्ता एव ते। तेषां व्यवहारः सर्वोऽपि परोपदेशनिमित्त एव। ज्ञानिनां व्यवहारे नान्यः कोऽपि नियमोऽस्ति। अनेनैवाभिप्रायेण तत्त्वदृष्टेर्देहपाते देशकालासनादीनामन्यतमदपि नोक्तम्।