ॐ गुरुपरमात्मने नमः

- ४६४-५३८ सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्


आवर्तः ४९१ – अदृष्टेर्देशकालाद्यपेक्षो देहपातः

द्वितीयः शिष्यस्त्वदृष्टिर्गङ्गातीरे एव शुभस्थाने एकान्ते सुपवित्रे च देशे ब्रह्मध्यानेन त्यक्त्वा स्वं देहं प्रागुक्तेनोत्तरायणमार्गेण ब्रह्मलोकं गत्वा क्रमेण ब्रह्मीभूय निरतिशयमानन्दमवाप। उत्तमेषु देशेषु, उत्तरायणादिषूत्तमेषु कालेषु वा यदा शरीरमुपासकः परित्यजति, तदैव उपासना फलिष्यति।

यद्यपि ज्ञानिनो मरणसमये ज्ञेयस्मृतिमत्त्वाद्यपेक्षा नास्ति। तथापि उपासकस्य तदा ध्येयादिस्वरूपस्मरणापेक्षा वर्तते।

(१) यो यादृशध्येयविषयकं ध्यानं पूर्वमसकृदकरोदुपासकः तस्य तादृशध्येयविषयकस्मृतावन्ततः सत्यामेव उपासनाफलं सिद्ध्यति।

(२) यथोपासकस्यान्तकाले ध्येयस्मृतिरपेक्ष्यते, तथा ध्येयब्रह्मप्राप्तये पञ्चमतरङ्गोक्तमार्गचिन्तनमप्यपेक्ष्यते। मार्गचिन्तनस्याप्युपासनाङ्गत्वात् ज्ञानार्थे श्रवणादौ देशकालासनाद्यपेक्षा नास्ति। ध्याने तु उत्तमदेशनिरन्तरकालसिद्धाद्यासनप्रभृतीनामपेक्षा वर्तत एव। तस्मादेवादृष्टेतत्रैवैक निरन्तरब्रह्मध्यानं रुत्तमदेशभूतगङ्गातीरस्थितिः, कथितः।