- ४६४-५३८ तर्कदृष्टेर्निश्चयः
आवर्तः ४९२ – अष्टादश विद्यास्थानानि सर्वाण्यपि च शास्त्राणि ब्रह्मज्ञानहेतुभूतानि
तृतीयशिष्यस्तु तर्कदृष्टिर्गुरुमुखादुपदेशं प्राप्य स्वावगतविषये शास्त्रान्तरविरोधपरिहाराय निखिलशास्त्राभिप्रायं विचार्य इत्थं निश्चिकाय।
(१) सकलशास्त्राणां परमं प्रयोजनं मोक्ष एव।
(२) मोक्षसाधनं च ज्ञानमेकमेव।
(३) तच्च ज्ञानमद्वयात्मतत्त्वनिश्चयरूपम्।
(४) भेदनिश्चयस्तु न यथार्थज्ञानम्।
(५) शास्त्राण्यपि निखिलानि साक्षात्, परम्परया वा ब्रह्मज्ञानहेतुभूतानि। संस्कृता *१ वैखरी वाणी अष्टादशप्रस्थानरूपा वर्तते। तत्र –
- (१) कानिचिच्छास्त्राणि कर्मप्रतिपादकानि।
- (२) कानिचिद्विषयसुखोपायप्रतिपादकानि।
- (३) कानिचिद्ब्रह्मान्यदेवतोपासनाबोधकानि।
- (४) कानिचिज्ज्ञानहेतुभूतानि।
*१. परा, पश्यन्ती, मध्यमा, वैखरी चेति चतस्रो वाचः। तत्र वैखरी परश्रवणयोग्याकारादिवर्णात्मनाभिव्यक्तीभवति।
तत्रापि न्यायसाङ्ख्यादिशास्त्राणि भेदज्ञानमेव यथार्थं कथयन्ति। तदेवं सर्वेषां शास्त्राणां यद्यप्यद्वैतब्रह्मबोधकत्वं न समभवति। तथापि, सकलशास्त्रप्रणेतारः सर्वज्ञाः कृपालवश्च। तत्कृतमूलसूत्राणामर्थोऽपि वेदानुसार्येव। परन्तु तद्व्याख्यातारो भ्रान्त्या मूलसूत्रकाराभिप्रायविरुद्धानेवार्थान् कल्पयन्ति। सूत्राणामर्थस्तु वेदविरोधी न भवति। वेदानुसार्येव भवति। तर्कदृष्टिरत्युत्तमसंस्कारवशादित्थं निश्चयं चकार।