ॐ गुरुपरमात्मने नमः

- ४६४-५३८ सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्
- ४९२-५०२ तर्कदृष्टेर्निश्चयः


आवर्तः ४९३ – अष्टादश विद्यायाः प्रस्थानानि

वेदाश्चत्वारः। उपवेदाश्चत्वारः। वेदाङ्गानि षट्। पुराणन्यायमीमांसाधर्मशास्त्राणि चत्वारि चेत्येवं वैखरी वाणी संस्कृतभाषारूपा अष्टादशभेदा भवति। *२ अष्टादश प्रस्थानानि इति त एव भेदा उच्यन्ते।

*२. विद्याङ्गानि प्रस्थानानीत्युच्यन्ते। इत्थमग्निपुराणारम्भे प्रतिपादितम्। तथा मधुसूदनसरस्वतीस्वामिकृतप्रस्थानभेदग्रन्थे च।