ॐ गुरुपरमात्मने नमः

- ४६४-५३८ सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्
- ४९२-५०२ तर्कदृष्टेर्निश्चयः


आवर्तः ४९४

ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेद इति *१ वेदाश्चत्वारः।

*१. ऋग्वेदे (२१) शाखाः। यजुर्वेदे (१०९) शाखाः। सामवेदे (१०००) शाखा:। अथर्ववेदे (५०) शाखाः ‘ यथा कश्चन वृक्षस्वामी यजमानः स्वपुत्रेभ्यस्तच्छाखा विभज्य दद्यात् तथा भगवान् श्रीवेदव्यासोऽपि वेदं चतुर्धा विभज्य पुनस्तत्र काश्चन शाखाः कल्पयित्वा प्रतिशाखं विधिभेदांश्च कल्पयामास। यावत्यः शाखास्तावत्य उपनिषद इति मुक्तिकोपनिषदि महावाक्यरत्नावल्यां च कथ्यते। अशीत्युत्तरशताधिकसहस्रसङ्ख्याकाः (१९८०) शाखाः। तस्मादुपनिषदोऽपि तावत्सङ्ख्याका (१९८०) एव भवन्ति। तत्र (८४०) शाखाः कर्मप्रतिपादकत्वात् कर्मकाण्डा उच्यन्ते। (२३२) शाखा ध्येयब्रह्मबोधकत्वादुपासनाकाण्डा उच्यन्ते। (१०८) शाखा ज्ञेयब्रह्मबोधकत्वात्, वेदस्यान्त्यभागत्वात्, वेदसारार्थबोधकत्वाच्च वेदान्ताः, ज्ञानकाण्डा उपनिषद इति चोच्यन्ते। तत्रापि (अष्टोत्तरशतोपनिषत्स्वपि) –

ईशकेनकठप्रश्नमुण्डमाण्डूक्यतित्तिरिः।
ऐतरेयश्च छान्दोग्यं बृहदारण्यकं दश॥

इति दशोपनिषदो मुख्याः।

तत्र ऐतरेयोपनिषदृग्वेदगता। ईशबृहदारण्यके शुक्लयजुर्वेदगते। कठवल्लीतैत्तिरीये कृष्णयजुर्वेदगते। केनच्छान्दोग्ये सामवेदगते। प्रश्नमुण्डकमाण्डूक्योपनिषदोऽथर्ववेदगता इति विभागः।

तत्र —

(१) कानिचिद्वाक्यानि ज्ञेयब्रह्मबोधकानि।

(२) कानिचिच्येयब्रह्मबोधकानि।

(३) इतराणि तु कर्मबोधकानि। कर्मावबोधकवेदवचनानामप्यन्तःकरणशुद्धिद्वारा ज्ञानमेव प्रयोजनं भवति।

कस्यापि वेदवचनस्य न प्रवृत्तावभिप्रायः। किन्तु स्वाभाविकनिषिद्धकर्मप्रवृत्तेर्निरोध एवाभिप्रायः। तस्मादभिचारादिकर्मप्रतिपादकाथर्ववेदस्यापि निवृत्तावेव तात्पर्यम्। शत्रुः संहर्तव्य इति द्वेषवशाद्यो गरदाने वा, अग्निदाहे वा प्रवर्तते तं शत्रुमारणप्रवृत्तेर्व्यावर्तयितुमभिचारकर्मरूपाः श्येनयागादयः कथिताः। शत्रुसंहारे निमित्तभूतं कर्माभिचार इत्युच्यते। ईदृशं कर्म श्येनयाग इत्युच्यते। श्येनयागकर्तव्यताबोधकवेदवचनानामपि ‘शत्रुवधकामः श्येनेनाभिचरन् यजेत’ इत्यादीनां श्येनयागप्रवृत्तौ न तात्पर्यम्। किन्तु शत्रुमारणकामस्य श्येनयागादिविलक्षणविषदानादिशत्रुमारणोपायान्तरनिवृत्तावेव तात्पर्यम्। प्रवृत्तेर्द्वेषत एव प्राप्तत्वात्।

*१ योऽन्यतः प्राप्तोऽर्थः न तत्र वाक्यस्याभिप्रायः। इत्थमथर्ववेदसामान्यं निवृत्तावेव तात्पर्यवत्। इतरवेदत्रयगतकर्मबोधकवाक्यानामन्तःकरणशुद्धिद्वारा ज्ञानोपायोगित्वमतिस्फुटम्।

*१ (१) “परिणीतामुपगच्छेत्। “

(२) “ऋतौ भार्यामुपेयात्।”

(३) “हुतशेषं भक्षयेत्।”

(४) “सौत्रामण्यां सुराग्रहं गृह्णाति।”

इत्यादिविधिवाक्यानां रागतः स्वतः प्राप्ते सर्वस्त्रीसङ्गे, सदा भार्यासङ्गमे, सदा मधुमांसादिभक्षणे वा प्रवर्तने नैव तात्पर्यम्। किन्तु स्वभावसिद्धसर्वतोमुखस्वेच्छाप्रवृत्तिसङ्कोचद्वारा निवृत्तावेव परमतात्पर्यम्। तस्मात् तादृशवेदवाक्यानि परिसङ्ख्याविधिस्वरूपाणि भवन्ति, न त्वपूर्वविधिरूपाणि। न वा नियमविधिरूपाणि। श्येनयागबोधकाथर्ववेदवचनानामपि द्वेषतः प्राप्तशत्रुमारणप्रवर्तने न तात्पर्यम्। किन्तु तादृशस्वभावसिद्धप्रवृत्तिनिरोधनद्वारा तादृशविषदानादिक्रूरकर्मनिवर्तने एव तात्पर्यम्। तस्माच्छ्येनयागबोधकवचनमपि परिसङ्ख्यात्मकमेवेति कथ्यते। तथा च भागवते –

लोके व्यवायामिषमद्यसेवा नित्यास्तु जन्तोर्न हि तत्र चोदना।
व्यवस्थितिस्तासु विवाहयज्ञसुराग्रहैरासु निवृत्तिरिष्टा॥ भा. पु. ११.५.११॥ इति।

रागतो द्वेषतो वा प्राप्तप्रवृत्तिसङ्कोचबोधकवेदवचनं परिसङ्ख्यारूपमित्युच्यते।