ॐ गुरुपरमात्मने नमः

- ४६४-५३८ सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्
- ४९२-५०२ तर्कदृष्टेर्निश्चयः


आवर्तः ४९५ – उपवेदानामपि चतुर्णां क्रमाद् ब्रह्मज्ञाने एव तात्पर्यम्

(१) आयुर्वेदः, (२) धनुर्वेदः, (३) गान्धर्ववेदः, (४) अर्थवेदः, इत्युपवेदाश्चत्वारः। तत्र –

(१) आयुर्वेदः – आयुर्वेदस्य कर्तारो ब्रह्मा, प्रजापतिः, अश्विनीकुमारौ, धन्वन्तर्यादयश्च। तच्छास्त्राणि चरकवाग्भटादिचिकित्साग्रन्थाश्चायुर्वेदा एव। वात्स्यायनकृतकामशास्त्रमपि आयुर्वेदान्तर्गतमेव। कामशास्त्रस्य विषयीभूतं वाजीकरणस्तम्भनादिकमपि चरकादिभिरुक्तम्। आयुर्वेदस्यापि वैराग्यप्रतिपान एव तात्पर्यम्। आयुर्वेदरीत्या रोगादिनिवृत्तावपि पुना रोगादिसंभवात्। तस्माल्लौकिकोपायाः सर्वेऽपि तुच्छा एव। तस्मात् औषधदानादिजनितपुण्याविर्भूतान्तःकरणशुद्धिद्वारा ब्रह्मज्ञान एवायुर्वेदस्योपयोगः।

(२) धनुर्वेदः – विश्वामित्रकृते धनुर्वेदे आयुधं निरूपितम्। तच्चतुर्विधम् – (१) मुक्तम्, (२) अमुक्तम्, (३) मुक्तामुक्तम्, (४) यन्त्रमुक्तं चेति।

  • (१) चक्रादयो हस्तेन मुच्यमानत्वान्मुक्ता इत्युच्यन्ते।
  • (२) खड्गदयोऽमुक्ता इति।
  • (३) परश्वादयो मुक्तामुक्ता इति।
  • (४) शरगोलकादयो यन्त्रमुक्ता इति।

(१) मुक्तमस्त्रमित्युच्यते। (२) अमुक्तं शस्त्रमिति। चतुर्विधानामप्येतेषामायुधानाम्, ब्रह्मा, विष्णुः, पशुपतिः, प्रजापतिः, अग्निः, वरुण इत्याद्या देवतास्तत्तन्मन्त्राश्चोक्ताः। तत्र चाधिकारिणः क्षत्रियकुमाराः तदनुवर्तिनो ब्राह्मणादयश्च। ते च चतुर्विधाः – (१) पदातिः, (२) रथारूढः, (३) अश्वारूढः, (४) गजारूढश्चेति। युद्धे शकुनमङ्गलादिकमप्युक्तमेव।

  • (१) ईदृशोऽर्थो धनुर्वेदस्य प्रथमपादे कथितः।
  • (२) आचार्यलक्षणम्, ततः शस्त्राभ्यासक्रमादिकं च द्वितीयपादे।
  • (३) गुरुसंप्रदायप्राप्तस्य शस्त्रस्याभ्यासमन्त्रसिद्धिदेवतासिद्धिप्रकारश्च तृतीयपादे।
  • (४) सिद्धानां मन्त्रादीनां प्रयोगादिकं चतुर्थपादे।

अयं च धनुर्वेदो ब्रह्मप्रजापतिभ्यां विश्वामित्रेण प्राप्तः। स च जगत्प्रसिद्धमिममकरोत्। न तु विश्वामित्रादेवायं वेदोऽभूत्। धनुर्वेदो हि दुष्टचोरादिभ्यः प्रजापालनरूपं क्षत्रियधर्मं बोधयति। तस्मात् तस्यापि चित्तशुद्धिद्वारा ज्ञानसाध्यमोक्षप्रतिपादन एव तात्पर्यम्।

(३) गन्धर्ववेदः – अयं च भरतेन मुनिना लोके प्रसिद्धोऽभूत्। तत्र हि स्वरतालमूर्च्छनादिभिः सह गीतनृत्यवाद्यादिकं सविस्तरं निरूपतिम्। देवताराधननिर्विकल्पसमाधिसिद्धिर्गान्धर्ववेदस्य प्रयोजनमुच्यते। तस्मात् तस्यापि अन्तःकरणैकाग्रतासम्पादनेन ज्ञानद्वारा मोक्ष एव परमं प्रयोजनम्।

(४) अर्थवेदोऽपि नानाप्रकारः – नीतिशास्त्रमश्वशास्त्रं शिल्पशास्त्रं सूपकारशास्त्रमित्यादिकं धनप्राप्त्युपायबोधकम् *१ अर्थवेद इत्युच्यते। धनप्राप्त्युपायनिपुणस्यापि विना भाग्यं धनप्राप्तिर्न स्यात् इत्यतोऽर्थवेदस्यापि वैराग्यबोधने एव तात्पर्यम्।

*१. स्थापत्यवेद इत्यप्ययमुच्यते।