- ४९२-५०२ तर्कदृष्टेर्निश्चयः
आवर्तः ४९६ – वेदाङ्गानामर्थेन सह प्रयोजनम्
चतुर्णामपि वेदानां षडङ्गानि स्युः। (१) शिक्षा, (२) कल्पः, (३) व्याकरणम्, (४) निरुक्तम्, (५) ज्यौतिषम्, (६) छन्दः (पिङ्गलशास्त्रादि) चेति षट् वेदार्थज्ञानोपयोगित्वाद्वेदाङ्गानीत्युच्यन्ते। तत्र –
(१) शिक्षा – शिक्षायाः कर्तारः पाणिनिप्रभृतयोऽनेके महर्षयः। वेदशब्दाक्षरस्थानादिज्ञानम्, *१ उदात्तानुदात्तस्वरितादिस्वरज्ञानम् इत्यादि शिक्षया जायते। वेदव्याख्यानरूपा अनेके प्रातिशाख्यनामका ये ग्रन्थास्तेऽप्यत्रैव शिक्षायामन्तर्भवन्ति।
*१. (१) उच्चैः स्वर उदात्तः। (२) नीचैः स्वरोऽनुदात्तः। (३) समस्वरः स्वरितः।
(२) कल्पसूत्रम् – कल्पसूत्रैर्वेदबोधितकर्मणामनुष्ठानरीतिरुपदिश्यते। यज्ञकर्मनिर्वर्तका ब्राह्मणा ऋत्विज उच्यन्ते। तेषां पृथक् पृथक् कर्तव्यकर्मक्रमावबोधकं कल्पसूत्रम्। कल्पसूत्रकर्तारस्तु कात्यायनाश्वलायनादयो मुनयः। *२ कल्पसूत्रम् अपि वेदार्थज्ञानोपयोगित्वाद्वेदाङ्गमेव।
*२. कल्पसूत्राणि षोढा। (१) जैमिनिना कृतं जैमिनीयम्। (२) आश्वलायनेन कृतमाश्वलायनम्। (३) आपस्तम्बेन कृतमापस्तम्बीयम्। (४) बोधायनेन कृतं बोधायनीयम्। (५) कात्यायनेन कृतं कात्यायनीयम्। (६) वैखानसेन कृतं वैखानसीयम्। इति।
(३) व्याकरणम् – व्याकरणेनापि वेदशब्दानां शुद्धताज्ञानं जायते। तच्च व्याकरणं सूत्ररूपमष्टाध्याय्यात्मकं पाणिनिमुनिना विरचितम्। तत्सूत्राणां व्याख्यानं वार्तिकरूपं भाष्यरूपं च कात्यायनपतञ्जलिभ्यामकारि। व्याकरणान्तरे तु वैदिकशब्दविचारो नास्ति। तदुपयोगः पुराणादावेव। न तु वेदे। पाणिनीयमेव व्याकरणं वैदिकशब्दस्वरूपसिद्धिं प्रदर्शयति। तस्माद्वेदाङ्गमेतत्।
(४) निरुक्तम् – यास्कनामा मुनिः त्रयोदशाध्यायात्मकं (१३) निरुक्तं रचयामास। तत्र च वेदमन्त्रगतानामप्रसिद्धानां पदानामर्थबोधनाय नामनिरूपणं कृतम्। तस्मात् वैदिकाप्रसिद्धपदार्थज्ञानोपयोगित्वान्निरुक्तमपि वेदाङ्गमेव। संज्ञाबोधकपञ्चाध्यायात्मको निघण्टुनाम ग्रन्थो यास्केनाकारि। सोऽपि निरुक्तान्तर्गत एव।
(५) ज्यौतिषम् – वैदिककर्मारम्भे कालज्ञानस्यापेक्षितत्वात् तादृशकालज्ञानजनकं ज्यौतिषमपि वेदाङ्गम्।
(६) छन्दः – पिङ्गलमुनिनाष्टाध्यायपरिमितं सूत्रात्मकं छन्दःशास्त्रं निर्मितम्। तेन वैदिकस्य गायत्र्यादेश्छन्दसो विज्ञानं जायते। तस्मात् पिङ्गलसूत्रमपि वेदाङ्गमेव। आदित्यगर्गादिकृतं ज्यौतिषमपि वेदाङ्गमेव।
इत्थं षडिमानि वेदाङ्गानि। यद्यपि तत्र वेदानुपयुक्ता अप्यर्था निरूपिताः। तथापि प्रासङ्गिकत्वात्तेषां न ते प्रधानभूताः। प्रधानभूतस्य वेदस्य यत्प्रयोजनं तदेव षण्णामप्यङ्गानां न तु पृथक्।