ॐ गुरुपरमात्मने नमः

- ४६४-५३८ सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्
- ४९२-५०२ तर्कदृष्टेर्निश्चयः


आवर्तः ४९७ – अष्टादश पुराणानि, उपपुराणानि च

पुराणान्यष्टादश (१८) तानि च श्रीव्यासमुनिना प्रणीतानि (१) ब्राह्मम्, (२) पाद्मम्, (३) वैष्णवम्, (४) शैवम्, (५) भागवतम्, (६) नारदीयम्, (७) मार्कण्डेयम्, (८) आग्नेयम्, (९) भविष्यत्, (१) ब्रह्मवैवर्तम्, (११) लैङ्गम्, (१२) वाराहम्, (१३) स्कान्दम्, (१४) वामनम्, (१५) कौर्मम्, (१६) मात्स्यम्, (१७) गारुडम्, (१८) ब्रह्माण्डम्। इति।

इतराण्यपि कालीपुराणादीनि बहूनि सन्ति। उपपुराणान्येव तान्यपि। केचिदुपपुराणान्यप्यष्टादशैवेति वदन्ति। नायमस्ति नियमः। सन्त्यनेकानि तानि। भागवतं द्विविधं भवति – (१) एकं वैष्णवं श्रीमद्भागवतम् (२) अपरं देवीभागवतम्। उभयोरपि ग्रन्थसङ्ख्याष्टादशसहस्राणि प्रत्येकम्। स्कन्धाश्च प्रत्येकं द्वादश। परन्त्वेकं तयोः पुराणम्। इतरदुपपुराणम्। एतदुभयमपि व्यासकृतमेव। तस्मादुभयमपि प्रमाणमेव। पुराणवदुपपुराणान्यपि कानिचिद्रचयाञ्चकार वेदव्यासः। कानिचिदुपपुराणानि पराशरादिभिरन्यैः सर्वज्ञमुनिभिः कृतानि। यत्रैवोपनिषदां तात्पर्यम्, तत्रैव सर्वेषामपि पुराणानामुपपुराणानां च तात्पर्यम्। एतच्चाग्रे *१ प्रतिपादयिष्यते।

*१. धर्मशास्त्रेषु कर्मकाण्डार्थो निरूप्यते। पुराणेषु च उपनिषद्रूपज्ञानकाण्डार्थः। इत्थं सूतसंहितायां विद्यारण्यस्वामिभिः प्रत्यपादि।