-
४६४-५३८
सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्
- ४९२-५०२ तर्कदृष्टेर्निश्चयः
- ४९२-५०२ तर्कदृष्टेर्निश्चयः
आवर्तः ४९८ – न्यायवैशेषिकसूत्राणामाशयः
गौतममुनिना न्यायसूत्राणि पञ्चाध्यायात्मना कृतानि। युक्तिरेवात्र प्रधानभूता। यस्य युक्तिचिन्तनावशात् तीव्रा बुद्धिर्जायते स एव मननं कर्तुं समर्थो भवति। तस्माद्युक्तिप्रधानन्यायसूत्राणामपि मननद्वारा *१ वेदान्तजन्यात्मज्ञानमेव फलम्। कणादमुनिरपि दशाध्यायपरिमितानि वैशेषिकसूत्राणि रचयामास। तान्यपि न्यायान्तर्गतान्येव।
*१. न्यायसूत्राणां मननद्वारा वेदान्तजन्यज्ञानमेव प्रयोजनमिति न्यायशास्त्रपारंगतशिरोमणिभट्टाचार्यैरपि स्वग्रन्थे निरूपितः। तस्मादस्य पूर्वोक्तमेव फलं संभवति।