ॐ गुरुपरमात्मने नमः

- ४६४-५३८ सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्
- ४९२-५०२ तर्कदृष्टेर्निश्चयः


आवर्तः ४९९ – धर्मब्रह्ममीमांसयोः सङ्कर्षणकाण्डस्य च फलम्

मीमांसा द्विप्रकारा (१) *१ एका धर्ममीमांसा। (२) *२ अपरा ब्रह्ममीमांसा।

*१. यत्र धर्मस्वरूपविचारः क्रियते, सा धर्ममीमांसेति कथ्यते।

*२. यत्र ब्रह्मस्वरूपविचारः क्रियते, सा ब्रह्ममीमांसेति। मीमांसा = पूजितविचारः।

(१) तत्र धर्ममीमांसा पूर्वमीमांसेत्युच्यते। (२) ब्रह्ममीमांसा उत्तरमीमांसेति। (१) धर्ममीमांसा चेयं द्वादशाध्यायरूपा। सा च जैमिनिमुनिना रचिता। यज्ञादिकर्मानुष्ठानप्रकारा अत्र निरूप्यन्ते। तस्माद्विध्युक्तरीत्या कर्मानुष्ठानप्रवृत्तिरेव धर्ममीमांसाफलम्। कर्मप्रवृत्त्यान्तःकरणशुद्धिर्जायते। ततो ज्ञानम्। ज्ञानान्मोक्षः। इत्थं धर्ममीमांसाया अपि फलं मोक्ष एव। धर्ममीमांसाया द्वादशाध्यायानामर्थभेदसद्भावात्, अर्थकाठिन्यसद्भावाच्च नेह लिख्यते । जैमिनिनैव चतुर्भिरध्यायैः सङ्कर्षणकाण्डाख्यो देवताकाण्डोऽप्यकारि। तत्रोपासना नानाप्रकारा निरूप्यते। सङ्कर्षणकाण्डोऽपि धर्ममीमांसान्तर्भूत एव।

(२) ब्रह्ममीमांसा – इयं हि चतुरध्यायी। कर्ता चास्या व्यास एव। प्रत्यध्यायं चत्वारः पादाः सन्ति। तत्रापि –

(२.१) प्रथमेऽध्याये सर्वेषामुपनिषद्वाक्यानां निर्विशेषेऽद्वये प्रत्यग्ब्रह्मण्येव तात्पर्यमिति निरूपितम्।

(२.२) उपनिषद्वाक्येषु मन्दबुद्धीनां विरोधो भाति। तत्परिहारो द्वितीयेऽध्याये कथ्यते।

(२.३) तृतीयेऽध्याये ज्ञानोपासनयोः साधनं निरूप्यते।

(२.४) चतुर्थे त्वध्याये ज्ञानोपासनयोः फलम्।

इदं चोत्तरमीमांसारूपं शारीरकं शास्त्रं सर्वशास्त्राणां प्रधानभूतम्। एतदेव मुमुक्षुभिरुपादेयम्। अस्य व्याख्यानरूपा ग्रन्था यद्यपि *४ नानाप्रकाराः सन्ति।

*४. शङ्कराचार्यभाष्यम्, रामानुजभाष्यम्, मध्वभाष्यम्, भास्कराचार्यभाष्यम्, विष्णुस्वामि। भाष्यम्, भट्टभाष्यम्,विज्ञानभिक्षुभाष्यम्, नीलकण्ठभाष्यमित्यनन्तानिभाष्यरूपाणिव्याख्यानानि सन्ति।

तथापि श्रीशङ्करभगवत्पादकृतं *१ भाष्यरूपं व्याख्यानम् एव मुमुक्षुभिरत्यादरेण श्रोतव्यम्। तच्च ज्ञानद्वारा मोक्षफलमित्यतिस्पष्टमेव।

*१. अत्र भाष्यशब्देन श्रीमच्छङ्करभगवत्पादकृतं भाष्यं तच्छिष्यप्रशिष्यादिकृतभाष्यव्याख्यानानि च गृह्यन्ते। शारीरकसूत्रमेव ब्रह्मसूत्रमित्युच्यते। तत्र (५५५) सूत्राणि सन्ति। तद्व्याख्यानोपव्याख्यानान्यत्र कानिचित् लिख्यन्ते।

क्रमांक कर्तृनाम मूलम् व्याख्यानम्
श्रीशङ्करः ब्रह्मसूत्रम् शारीरकभाष्यम्
पद्मपादाचार्यः शारीरकभाष्यम् विजयाभिदण्डिनी
श्रीशङ्करः शारीरकभाष्यम् पञ्चपादिका
श्रीप्रकाशात्मचरणः पञ्चपादिका विवरणम्
अखण्डानन्दभिक्षुः विवरणम् तत्त्वदीपनम्
विद्यारण्यः विवरणम् विवरणप्रमेयसङ्ग्रहः
नृसिंहाश्रमी पञ्चपादिका टीका
वाचस्पतिमिश्रः शारीरकभाष्यम् भामती
अमलानन्दः भामती कल्पतरुः
१० अप्पय्यदीक्षितः कल्पतरुः परिमलम्
११ अद्वैतानन्दः शारीरकभाष्यम् ब्रह्मविद्याभरणम्
१२ आनन्दगिरिः शारीरकभाष्यम् न्यायनिर्णयः
१३ रामानन्दः शारीरकभाष्यम् रत्नप्रभा
१४ सर्वज्ञात्ममुनिः शारीरकभाष्यम् सङ्क्षेपशारीरकम्
१५ मधुसूदनस्वामी शारीरकभाष्यम् सङ्क्षेपशारीरकसारसङ्ग्रहः
१६ रामाश्रमी सङ्क्षेपशारीरकम् टीका
१७ नारायणसरस्वती शारीरकभाष्यम् वार्तिकम्
१८ बालकृष्णानन्दः शारीरकभाष्यम् वार्तिकम्
१९ मधुसूदनस्वामी शारीरकभाष्यम् वेदान्तकल्पलतिका
२० रामाश्रमी ब्रह्मसूत्रम् वृत्तिः
२१ नारायणभट्टः ब्रह्मसूत्रम् वृत्तिः
२२ अप्पय्यदीक्षितः ब्रह्मसूत्रम् न्यायरक्षामणिः
२३ शङ्करानन्दः ब्रह्मसूत्रम् न्यायरक्षामणिः
२४ भैरवदत्तपण्डितः ब्रह्मसूत्रम् तात्पर्यम्
२५ रामानन्दस्वामी ब्रह्मसूत्रम् ब्रह्मामृतवर्षिणी
२६ गङ्गाधरेन्द्रसरस्वती ब्रह्मसूत्रम् स्वाराज्यसिद्धिः
२७ विद्यारण्यः ब्रह्मसूत्रम् अधिकरणरत्नमाला
२८ रघुनाथशास्त्री ब्रह्मसूत्रम् शाङ्करपादभूषणम्
२९ रघुनाथशास्त्री ब्रह्मसूत्रम् अद्वैतवृत्तिः
३० रघुनाथशास्त्री ब्रह्मसूत्रम् दिग्दर्शिनी
३१ अनूयनारायणः ब्रह्मसूत्रम् समञ्जसा
३२ अन्नंभट्टः ब्रह्मसूत्रम् मिताक्षरी
३३ ज्ञानेन्द्रः ब्रह्मसूत्रम् ब्रह्मसूत्रार्थप्रकाशिका
३४ नागेश्वरः ब्रह्मसूत्रम् ब्रह्मसूत्रेन्दुशेखरम्
३५ प्रकाशात्मश्रीचरणाः ब्रह्मसूत्रम् शारीरकमीमांसान्यायसङ्ग्रहः
३६ ब्रह्मानन्दसरस्वती ब्रह्मसूत्रम् वेदान्तसूत्रमुक्तावली
३७ भवदेवः ब्रह्मसूत्रम् वृत्तिः
३८ रङ्गनाथः ब्रह्मसूत्रम् विद्वज्जनमनोहरः
३९ स्वयंप्रकाशानन्दः ब्रह्मसूत्रम् वेदान्तवचनभूषणम्
४० जगन्नाथयतीश्वरः शारीरकभाष्यम् भाष्यदीपिका
४१ अमलानन्दः ब्रह्मसूत्रम् शास्त्रदर्पणम्
४२ गदाधरः ब्रह्मसूत्रम् सारार्थसङ्ग्रहः

एवं नानाप्रकारा व्यख्यानरूपा ग्रन्था वर्तन्ते। एते च प्रसङ्गान्मुमुक्षोः स्वसिद्धान्तदृढतरज्ञानसिद्ध्यर्थं प्रतिपादिताः।