-
४६४-५३८
सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्
- ४९२-५०२ तर्कदृष्टेर्निश्चयः
- ४९२-५०२ तर्कदृष्टेर्निश्चयः
आवर्तः ५०० – स्मृत्यादिग्रन्थानां कर्तारः प्रयोजं च
मनुः, याज्ञवल्क्यः, विष्णुः, यमः, अङ्गिराः, वसिष्ठः, दक्षः, संवर्तः, शातापराशरः, गौतमः, शङ्खलिखितः, हारीतः, आपस्तम्बः, शुक्रः, बृहस्पतिः, व्यासः, कात्यायनः, देवलः नारद एवमादिभिः सर्वज्ञैर्वेदानुसारिणो स्मृतिनामका ग्रन्था रचिताः। त एव धर्मशास्त्राणि भवन्ति। तेषु वर्णाश्रमकायिकवाचिकमानसिककर्माण्युक्तानि। एतेषामपि अन्तःकरणशुद्धिद्वारा ज्ञानोत्पत्त्या मोक्षसिद्धिरेव प्रयोजनम्। साङ्ख्यशास्त्रयोगशास्त्रवैष्णवतन्त्रशैवतन्त्रादीनामपि धर्मशास्त्र एवान्तर्भावः। मानसिकोपासनारूपकर्मनिरूपकत्वात्।