ॐ गुरुपरमात्मने नमः

- ४६४-५३८ सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्
- ४९२-५०२ तर्कदृष्टेर्निश्चयः


आवर्तः ५०१ – साङ्ख्यशास्त्रप्रयोजनम्

कपिलः साङ्ख्यशास्त्रं षडध्यायरूपं रचयाम्बभूव।

  • (१) तत्र प्रथमाध्याये तच्छास्त्रविषयः प्रतिपाद्यते।
  • (२) द्वितीयाध्याये महत्तत्त्वाहङ्कारादयः प्रधानकार्याण्युच्यन्ते।
  • (३) तृतीयाध्याये विषयेभ्यो वैराग्योत्पत्तिः कथ्यते।
  • (४) चतुर्थाध्याये विरक्तानां चरित्रं निरूप्यते।
  • (५) पञ्चमाध्याये परपक्षः खण्ड्यते।
  • (६) षष्ठाध्याये सकलार्थसङ्ग्रहः कथ्यते।

प्रकृतिपुरुषविवेकात् पुरुषोऽसङ्ग इति ज्ञानं साङ्ख्यशास्त्रप्रयोजनम्। त्वंपदलक्ष्यार्थशोधनद्वारा महावाक्यजन्यज्ञानोपयोगित्वान्मोक्ष तच्छास्त्रस्यापि एव फलम्।